०४

01 प्राङ् माहेन्द्रात्कृत्वा नैवारे …{Loading}…

प्राङ् माहेन्द्रात्कृत्वा नैवारे सर्पिरानीय चात्वालेऽवदधाति १

02 तं राजपुत्रो गोपायति …{Loading}…

तं राजपुत्रो गोपायति २

03 चात्वाले रथाक्षाकृति काष्ठन् …{Loading}…

चात्वाले रथाक्षाकृति काष्ठं निखाय तस्मिन्नौदुम्बरं रथचक्रं सप्तदशारं प्रतिमुञ्चति ३

04 उत्तरस्यां वेदिश्रोण्यां सप्तदश …{Loading}…

उत्तरस्यां वेदिश्रोण्यां सप्तदश दुन्दुभीन्प्रबध्नन्ति ४

05 विष्णोः क्रमोऽसीति रथं …{Loading}…

विष्णोः क्रमोऽसीति रथं यजमानोऽभ्यैति ५

06 अङ्कौ न्यङ्काविति रथचक्रे …{Loading}…

अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ६

07 इन्द्राय वाचं वदतेति …{Loading}…

इन्द्राय वाचं वदतेति दुन्दुभीन्संह्रादयन्ति ७

08 देवस्याहं सवितुः प्रसवे …{Loading}…

देवस्याहं सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषमित्यौदुम्बरं रथचक्रं ब्रह्मारोहति ८

09 तमाह वाजिनां साम …{Loading}…

तमाह वाजिनां साम गायेति ९

10 तस्य चक्रन् त्रिः …{Loading}…

तस्य चक्रं त्रिः प्रदक्षिणमावर्तयति १०

11 वर्तमाने ब्रह्मा गायति …{Loading}…

वर्तमाने ब्रह्मा गायति ११

12 देवस्याहं सवितुः प्रसवे …{Loading}…

देवस्याहं सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकं रुहेयमिति यजुर्युक्तं यजमान आरोहति १२

13 वाजसृत इतरान्रथान् …{Loading}…

वाजसृत इतरान्रथान् १३

14 वाजिनो वाजजितो वाजं …{Loading}…

वाजिनो वाजजितो वाजं सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर्भागमव जिघ्रतेति नैवारमश्वौ धुर्याववघ्रापयति । सर्वान्वा १४

15 बृहस्पतेर्भागे नि मृड्ढ्वमिति …{Loading}…

बृहस्पतेर्भागे नि मृड्ढ्वमिति प्रप्रोथेषु च लेपान्निमार्ष्टि १५

16 अश्वाजनीत्यश्वाजनीमादायाध्वर्युर्यजुर्युक्तमधिरुह्यार्वासि सप्तिरसीति तयाश्वान्समवक्षिणोति …{Loading}…

अश्वाजनीत्यश्वाजनीमादायाध्वर्युर्यजुर्युक्तमधिरुह्यार्वासि सप्तिरसीति तयाश्वान्समवक्षिणोति १६

17 अनभ्यासादयन्त इतरे रथाः …{Loading}…

अनभ्यासादयन्त इतरे रथाः पश्चादनुयान्ति १७

18 वाजिनो वाजन् धावतेति …{Loading}…

वाजिनो वाजं धावतेति चतसृभिर्धावतोऽनुमन्त्रयते १८

19 अग्निरेकाक्षरेणेति धावत्सूज्जितीर्यजमानं वाचयति …{Loading}…

अग्निरेकाक्षरेणेति धावत्सूज्जितीर्यजमानं वाचयति १९

20 लक्षणम् प्राप्योदञ्च आवृत्य …{Loading}…

लक्षणं प्राप्योदञ्च आवृत्य प्रदक्षिणमावर्तयन्ते २०

21 मितद्रव इति चतसृभिः …{Loading}…

मितद्रव इति चतसृभिः प्रत्याधावतोऽनुमन्त्रयते २१

इति चतुर्थी कण्डिका


  1. Cp. ŚB V.1.4.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.3.6.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XVIII.2.17-18. ↩︎ ↩︎

  4. Cf. MS I.11.7; KS.XIV.7. ↩︎ ↩︎