०३

01 इन्द्रस्य वज्रोऽसीति रथमुपावहृत्याप्स्वन्तरित्यश्वानप्सु ...{Loading}...

इन्द्रस्य वज्रोऽसीति रथमुपावहृत्याप्स्वन्तरित्यश्वानप्सु स्नापयन्ति १

02 अपान् नपादिति रराटानि ...{Loading}...

अपां नपादिति रराटानि प्रतिमार्ष्टि २

03 वायुर्वा त्वा मनुर्वा ...{Loading}...

वायुर्वा त्वा मनुर्वा त्वेति प्रष्टिवाहिनं रथं युनक्ति । तूष्णीमितरान्षोडश रथान् ३

04 दक्षिणाकाले सप्तदश रथान्ददाति ...{Loading}...

दक्षिणाकाले सप्तदश रथान्ददाति । सप्तदशानांसि सप्तदशाश्वान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः सप्तदशाजाः सप्तदशावीः सप्तदश वासांसि सप्तदश गवां शतानि ४

05 अथैकेषाम् सप्तदश गवां ...{Loading}...

अथैकेषाम् । सप्तदश गवां शतानि ददाति । सप्तदशानांसि युक्तानि सप्तदशाश्वरथान्सप्तदश हस्तिनः सप्तदश निष्कान्सप्तदश दास्यः सप्तदश दुन्दुभीन् ५

06 एष आप्तो वाजपेयः ...{Loading}...

एष आप्तो वाजपेयः ६

07 अथ कुरुवाजपेयः ...{Loading}...

अथ कुरुवाजपेयः ७

08 वयसोवयसः सप्तदश सप्तदशानि ...{Loading}...

वयसोवयसः सप्तदश सप्तदशानि ददाति ८

09 एकहायनप्रभृत्या पञ्चहायनेभ्यो वयांसि ...{Loading}...

एकहायनप्रभृत्या पञ्चहायनेभ्यो वयांसि ९

10 अनुदिष्टासु दक्षिणासु यजुर्युक्तमध्वर्यवे ...{Loading}...

अनुदिष्टासु दक्षिणासु यजुर्युक्तमध्वर्यवे ददाति १०

11 शेषः साधारणः ...{Loading}...

शेषः साधारणः ११

12 अग्रेणाहवनीयमुदीचः प्राचो वा ...{Loading}...

अग्रेणाहवनीयमुदीचः प्राचो वा रथानवस्थापयन्ति १२

13 तेषान् दक्षिणो यजुर्युक्तः ...{Loading}...

तेषां दक्षिणो यजुर्युक्तः १३

14 अग्रेणाग्नीध्रं राजपुत्रोऽवस्थाय सप्तदश ...{Loading}...

अग्रेणाग्नीध्रं राजपुत्रोऽवस्थाय सप्तदश प्रव्याधानिषुमस्यति १४

15 यत्र जघन्यन् निपतति ...{Loading}...

यत्र जघन्यं निपतति तत्रौदुम्बरीं काष्ठां लक्षणं मिनोति १५

इति तृतीया कण्डिका


  1. See TS.I.7.7.B. ↩︎ ↩︎ ↩︎

  2. TS I.7.7.d; See TB I.3.5.2; MS I.11.6. ↩︎

  3. TS I.7.7.f; See TB I.3.5.4; MS I. 1.6; KS XIV.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎