०२

01 ग्रहकाल ऐन्द्रमतिग्राह्यङ् गृहीत्वोपयामगृहीतोऽसि ...{Loading}...

ग्रहकाल ऐन्द्रमतिग्राह्यं गृहीत्वोपयामगृहीतोऽसि नृषदं त्वेति पञ्चैन्द्रानतिग्राह्यान्गृह्णाति १

02 तेषाम् पूर्ववत्कल्पः ...{Loading}...

तेषां पूर्ववत्कल्पः २

03 षोडशिनङ् गृहीत्वाया विष्ठा ...{Loading}...

षोडशिनं गृहीत्वाया विष्ठा जनयन्कर्वराणीति सप्तदश प्राजापत्यान्सोमग्रहान्गृह्णाति ३

04 तेषां षोडशिवत्कल्पः ...{Loading}...

तेषां षोडशिवत्कल्पः ४

05 कुविदङ्गेत्यपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशभिरुपयामैः ...{Loading}...

कुविदङ्गेत्यपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशभिरुपयामैः सुराग्रहान्गृह्णाति ५

06 विपरीते ग्रहण्यावेके समामनन्ति ...{Loading}...

विपरीते ग्रहण्यावेके समामनन्ति ६

07 व्यतिषङ्गं सोमग्रहैः सुराग्रहान्गृह्णाति ...{Loading}...

व्यतिषङ्गं सोमग्रहैः सुराग्रहान्गृह्णाति ७

08 पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता ...{Loading}...

पूर्वोऽध्वर्युर्गृह्णाति । जघन्यः प्रतिप्रस्थाता ८

09 पुरोऽक्षं सोमग्रहान्सादयति पश्चादक्षं ...{Loading}...

पुरोऽक्षं सोमग्रहान्सादयति । पश्चादक्षं सुराग्रहान् ९

10 देव सवितः प्र ...{Loading}...

देव सवितः प्र सुवेति सवनादौसवनादौ जुहोति । कर्मणःकर्मणो वा पुरस्तात् १०

11 हिरण्यमालिन ऋत्विजः सुत्येऽहनि ...{Loading}...

हिरण्यमालिन ऋत्विजः सुत्येऽहनि प्रचरन्ति ११

12 पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं ...{Loading}...

पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं वशामुपाकरोति । सारस्वतीं च मेषीमपन्नदतीम् १२

13 सारस्वतम् मेषमुपाकृत्य सप्तदश ...{Loading}...

सारस्वतं मेषमुपाकृत्य सप्तदश प्राजापत्यान्पशूनुपाकरोति श्यामांस्तूपरानेकरूपान् १३

14 पर्यग्निकृतानां सारस्वत्यन्तान्पूर्वानालभन्ते ...{Loading}...

पर्यग्निकृतानां सारस्वत्यन्तान्पूर्वानालभन्ते १४

15 सारस्वतप्रभृतीनुत्तरान्धारयन्ति ...{Loading}...

सारस्वतप्रभृतीनुत्तरान्धारयन्ति १५

16 प्रतिपशु बर्हिषीत्युक्तम् ...{Loading}...

प्रतिपशु बर्हिषीत्युक्तम् १६

17 प्राङ् माहेन्द्रात्कृत्वा माध्यन्दिनीयान्वा ...{Loading}...

प्राङ् माहेन्द्रात्कृत्वा माध्यन्दिनीयान्वा पुरोडाशान्निरुप्य सारस्वतस्य पशु पुरोडाशं निरुप्य बार्हस्पत्यं नैवारं सप्तदशशरावं चरुं निर्वपति । द्वादश मन्त्रेण । तूष्णीमितराणि १७

18 पयसि श्रपयति ...{Loading}...

पयसि श्रपयति १८

19 दाक्षिणौ होमौ हुत्वा ...{Loading}...

दाक्षिणौ होमौ हुत्वा १९

इति द्वितीया कण्डिका