०१

01 शरदि वाजपेयेन यजेत …{Loading}…

शरदि वाजपेयेन यजेत ब्राह्मणो राजन्यो वर्द्धिकामः १

02 नित्यवदेके समामनन्ति …{Loading}…

नित्यवदेके समामनन्ति २

03 प्रजापतिमाप्नोति …{Loading}…

प्रजापतिमाप्नोति ३

04 तस्य षोडशिवत्कल्पः …{Loading}…

तस्य षोडशिवत्कल्पः ४

05 सर्वः सप्तदशो भवति …{Loading}…

सर्वः सप्तदशो भवति ५

06 सप्तदश दीक्षाः तिस्र …{Loading}…

सप्तदश दीक्षाः । तिस्र उपसदः । एकविंशीं प्रसुतः ६

07 त्रयोदश वा दीक्षाः …{Loading}…

त्रयोदश वा दीक्षाः । तिस्र उपसदः । सप्तदशीं प्रसुतः ७

08 सप्तदशारत्निर्बैल्वो यूपः खादिरो …{Loading}…

सप्तदशारत्निर्बैल्वो यूपः खादिरो वा तूपरश्चतुरश्रो गोधूमपिष्टचषालो गोधूमकलापी वा ८

09 यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः …{Loading}…

यत्प्रागुपसद्भ्यस्तस्मिन्कृते प्रतिप्रस्थाता सुरायाः कल्पेन सुरां सन्दधाति ९

10 परिस्रुद्भवति …{Loading}…

परिस्रुद्भवति १०

11 खरकाले प्रतिप्रस्थाता दक्षिणस्य …{Loading}…

खरकाले प्रतिप्रस्थाता दक्षिणस्य हविर्धानस्याधस्तात्पश्चादक्षं सुराग्रहार्थं द्वितीयं खरं करोति ११

12 रशनाकाले सप्तदशभिर्वासोभिर्यूपं वेष्टयति …{Loading}…

रशनाकाले सप्तदशभिर्वासोभिर्यूपं वेष्टयति १२

13 पात्रसंसादनकाल ऐन्द्रमतिग्राह्यपात्रम् प्रयुज्य …{Loading}…

पात्रसंसादनकाल ऐन्द्रमतिग्राह्यपात्रं प्रयुज्य तत्समीपे पञ्चैन्द्राण्यतिग्राह्यपात्राणि प्रयुनक्ति १३

14 तेषाम् पूर्वेण कल्पो …{Loading}…

तेषां पूर्वेण कल्पो व्याख्यातः १४

15 षोडशिपात्रम् प्रयुज्य तत्समीपे …{Loading}…

षोडशिपात्रं प्रयुज्य तत्समीपे सप्तदश प्राजापत्यानि सोमग्रहपात्राणि प्रयुनक्ति १५

16 तेषां षोडशिपात्रवत्कल्पः …{Loading}…

तेषां षोडशिपात्रवत्कल्पः १६

17 अपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशोपयामान्मृन्मयानि …{Loading}…

अपरस्मिन्खरे प्रतिप्रस्थाता सप्तदशोपयामान्मृन्मयानि सुराग्रहपात्राणि प्रयुनक्ति १७

इति प्रथमा कण्डिका


  1. Cf. TMB XVIII.7.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.3.3.5. ↩︎