२५

01 अपि वोत्तरवेद्यामुपर्यग्रौ धार्यमाणे ...{Loading}...

अपि वोत्तरवेद्यामुपर्यग्रौ धार्यमाणे प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृशेत् १

02 अपि वा तिस्रः ...{Loading}...

अपि वा तिस्रः स्वयमातृणाः २

03 तासामुपधानकल्पः ...{Loading}...

तासामुपधानकल्पः ३

04 स्वयमातृणा सामपुरीषम् एवं ...{Loading}...

स्वयमातृणा सामपुरीषम् । एवं विहिता द्वितीया । अपुरीषा तृतीया ४

05 अपि वा तिस्रः ...{Loading}...

अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः ५

06 तासामुपधानकल्पः ...{Loading}...

तासामुपधानकल्पः ६

07 स्वयमातृणा सामपुरीषमथ विश्वज्योतिः ...{Loading}...

स्वयमातृणा सामपुरीषमथ विश्वज्योतिः । एवं विहिता द्वितीया । तृतीयस्यां तु विश्वज्योतिः प्रथमाथ स्वयमातृणाथ सामपुरीषम् ७

08 अपि वाष्टौ लोकम्पृणाः ...{Loading}...

अपि वाष्टौ लोकम्पृणाः पुरीषम् । एकादश लोकम्पृणाः पुरीषम् । द्वादश लोकम्पृणाः पुरीषम् ८

09 अग्निञ् चित्वा यः ...{Loading}...

अग्निं चित्वा यः सोमेन यजेत स एता एकत्रिंशतं लोकम्पृणा उत्तरवेद्यामुपधाय यजेत ९

10 समृद्ध्यर्थायान् तु द्वितीयञ् ...{Loading}...

समृद्ध्यर्थायां तु द्वितीयं चिन्वानो द्वितीयस्यां चितौ येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् अष्टौ च लोकम्पृणा अथ पुरीषम् १०

11 श्वो भूत एताश्चैव ...{Loading}...

श्वो भूत एताश्चैव नानामन्त्रा एकादश च लोकम्पृणा अथ पुरीषम् ११

12 श्वो भूत एताश्चैव ...{Loading}...

श्वो भूत एताश्चैव नानामन्त्रा द्वादश च लोकम्पृणा अथ पुरीषम् १२

13 सन्तानार्थायान् तु तृतीयञ् ...{Loading}...

सन्तानार्थायां तु तृतीयं चिन्वानस्तृतीयस्यां चितौ येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् यथार्थं लोकम्पृणा अथ पुरीषम् १३

इति पञ्चविंशी कण्डिका


  1. TS V.5.2.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. The source of this rule not known. ↩︎ ↩︎