२४

01 उप त्वाग्ने दिवेदिव ...{Loading}...

उप त्वाग्ने दिवेदिव इति तिसृभिरन्येषामग्नीन् दृष्ट्वाग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या चामिक्षया १

02 संवत्सरन् न कञ्चन ...{Loading}...

संवत्सरं न कञ्चन प्रत्यवरोहेन्न च रामामुपेयात् । न पक्षिणोऽश्नीयात् २

03 यावज्जीवञ् च मस्तिष्कस्य ...{Loading}...

यावज्जीवं च मस्तिष्कस्य नाश्नीयान्न च वर्षति धावेत् ३

04 यदि धावेदुपावर्तेत ...{Loading}...

यदि धावेदुपावर्तेत ४

05 न द्वितीयञ् चित्वान्यस्य ...{Loading}...

न द्वितीयं चित्वान्यस्य स्त्रियमुपेयात् । न तृतीयं चित्वा काञ्चन । भार्यां वोपेयात् ५

06 अग्निञ् चित्वैतस्मिन्संवत्सरे यो ...{Loading}...

अग्निं चित्वैतस्मिन्संवत्सरे यो नर्ध्नुयात्स क्रतुमाहरमाण एकचितीकं चिन्वीत ६

07 सलिलाय त्वेत्यष्टौ नानामन्त्रा ...{Loading}...

सलिलाय त्वेत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकम्पृणा अथ पुरीषम् ७

08 अथ यो न ...{Loading}...

अथ यो न प्रतितिष्ठेत्स क्रतुमाहरमाण एकचितीकमेव चिन्वीत ८

09 संयच्च प्रवेताश्चेति पञ्च ...{Loading}...

संयच्च प्रवेताश्चेति पञ्च नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकम्पृणा अथ पुरीषम् ९

10 विपरीतौ कामावेके समामनन्ति ...{Loading}...

विपरीतौ कामावेके समामनन्ति १०

11 पुनश्चितिस्त्रिष्वर्थेषु श्रूयते श्रवणार्थे ...{Loading}...

पुनश्चितिस्त्रिष्वर्थेषु श्रूयते । श्रवणार्थे समृद्ध्यर्थे सन्तानार्थे वा ११

12 श्रवणार्थां व्याख्यास्यामः ...{Loading}...

श्रवणार्थां व्याख्यास्यामः १२

13 यदीष्ट्या यदि पशुना ...{Loading}...

यदीष्ट्या यदि पशुना यदि सोमेन यजेति यो ऽस्य पुराग्निस्तमन्ववसाय यजेत १३

14 अपि वा येनर्षय ...{Loading}...

अपि वा येनर्षय इत्यष्टौ नानामन्त्रा उत्तरवेद्यामुपदध्यात् । यथार्थं लोकम्पृणा अथ पुरीषम् १४

इति चतुर्विंशी कण्डिका


  1. Cf. KS XXII. 10. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS 1.5.6.f-h. This part of the Sūtra should be a part of XVII.23.12. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.5.4.2-3. ↩︎ ↩︎ ↩︎

  4. Cf. TB III. 12.5.12. We should read vamikṣayā instead of cāmikṣyà (cp. XIX.15.15). ↩︎