२३

01 पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं …{Loading}…

पुरस्तात्प्रातरनुवाकादग्निं युनज्मीति तिसृभिरभिमृशन्नग्निं युनक्ति १

02 यद्येनम् पूर्वो भ्रातृव्योऽभीव …{Loading}…

यद्येनं पूर्वो भ्रातृव्योऽभीव स्यादष्टौ गायत्रीः पुरस्ताद्वहिष्पवमानादुपदध्यात् । एकादश त्रिष्टुभः पुरस्तान्माध्यन्दिनात् । द्वादश जगतीः पुरस्तादार्भवात् २

03 यदि वापर एतद्विपरीतम् …{Loading}…

यदि वापर एतद्विपरीतम् । उपरिष्टात्पवमानेभ्य उपधीयन्ते ३

04 पशुकाल आग्नेयं सवनीयम् …{Loading}…

पशुकाल आग्नेयं सवनीयं पशुमुपाकरोति । एकादशिनान्वा ४

05 दक्षिणाकाले हिरण्यपात्रम् मधोः …{Loading}…

दक्षिणाकाले हिरण्यपात्रं मधोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति ५

06 अध्वर्यवे कल्याणीर्दक्षिणा ददाति …{Loading}…

अध्वर्यवे कल्याणीर्दक्षिणा ददाति ६

07 यद्यस्याग्निञ् चिनोति यज्ञायज्ञीयस्य …{Loading}…

यद्यस्याग्निं चिनोति यज्ञायज्ञीयस्य स्तोत्र एकयाप्रस्तुतं भवति ७

08 अथ नमस्ते अस्तु …{Loading}…

अथ नमस्ते अस्तु मा मा हिंसीरिति द्वाभ्यामग्निमभिमृश्यैकादश समिष्टयजूंषि जुहोति ८

09 नवाध्वरिकाणि हुत्वेष्टो यज्ञो …{Loading}…

नवाध्वरिकाणि हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति ९

10 अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचङ् …{Loading}…

अनूबन्ध्यावपायां हुतायामौदुम्बरीं स्रुचं घृतस्य पूरयित्वेमं स्तनमूर्जस्वन्तं धयापामित्यग्नेर्विमोकं जुहोति १०

11 हुते सक्तुहोमे यदाकूतादिति …{Loading}…

हुते सक्तुहोमे यदाकूतादिति दशाकूतीर्हुत्वा प्रत्यवरुह्य पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोऽन्तस्तिष्ठत्वमृतस्य गोपा इत्युपतिष्ठते ११

12 येऽग्नयः पुरीष्या इति …{Loading}…

येऽग्नयः पुरीष्या इति प्रयास्यन्नाप्तिभिरग्निं यजमान उपतिष्ठते १२

इति त्रयोविंशी कण्डिका


  1. Cf. ŚB IX.4.4.1 ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.7.13.a-c. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. i.e. he brings it into use. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. TS V.4.10.1. According to ŚB IX.4.4.3 he touches the enclosing sticks. ↩︎ ↩︎