२२

01 मृडा नो रुद्रेति ...{Loading}...

मृडा नो रुद्रेति नो मयस्कृधि । अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहुवाम ते हविः । त्वेषं वयं रुद्रं यज्ञसाधनं वङ्कुं कविमवसे नि ह्वयामहे । आरे अस्मदमतिं हेडो अस्यतु सुमतिमिद्वयमस्या वृणीमह इति तिस्रश्चात्वाले १

02 हव्यम् प्रीणीहि हव्यं ...{Loading}...

हव्यं प्रीणीहि हव्यं श्रीणीहि हव्यं पच हव्यं श्रपय हव्यमसि हव्याय त्वा हव्येभ्यस्त्वा हव्ये सीदेत्यष्टौ शामित्रे २

03 अव ते हेङः ...{Loading}...

अव ते हेङः । उदुत्तमम् । तत्त्वा यामीति तिस्रोऽवभृथे ३

04 तासु घ्रचरन्ति ...{Loading}...

तासु घ्रचरन्ति ४

05 खण्डाः कृष्णा लक्ष्मणाश्चोत्कर ...{Loading}...

खण्डाः कृष्णा लक्ष्मणाश्चोत्कर उदस्यति ५

06 अवशिष्टाश्च भित्त्वा यत्प्राग्यूपसम्मानात्तत्कृत्वैकयूपमेकादश ...{Loading}...

अवशिष्टाश्च भित्त्वा यत्प्राग्यूपसम्मानात्तत्कृत्वैकयूपमेकादश वा यूपान्सम्मिनोति ६

07 तेषाम् पूर्वेद्युरग्निष्ठम् अत्रैवेतरान् ...{Loading}...

तेषां पूर्वेद्युरग्निष्ठम् । अत्रैवेतरान् । श्वो वा ७

08 एकयूपे वैकादशिनानुपाकरोति ...{Loading}...

एकयूपे वैकादशिनानुपाकरोति ८

09 अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां ...{Loading}...

अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपति ९

10 समानन् तु स्विष्टकृदिडम् ...{Loading}...

समानं तु स्विष्टकृदिडम् १०

इति द्वाविंशी कण्डिका


  1. KS XL.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. KS XXII. 11 according to which these bricks are to be kept to the south of the Paśuśrapaṇa. That indicates Cātvāla. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS II.1.11.w. The three verses in this context are mentioned in KS XL.11. ↩︎

  4. Cf. KS XXII. 11. ↩︎