२१

01 ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन ...{Loading}...

ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियांश्चिनोति १

02 अश्मनवमा आग्नीध्रीय उपदधाति ...{Loading}...

अश्मनवमा आग्नीध्रीय उपदधाति २

03 द्वादश षोडशैकविंशतिञ् चतुर्विंशतिं ...{Loading}...

द्वादश षोडशैकविंशतिं चतुर्विंशतिं वा होत्रीये । एकादश ब्राह्मणाच्छंसीये । षण्मार्जालीये ३

04 अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते ...{Loading}...

अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते ४

05 चतुरश्राः परिमण्डला वा ...{Loading}...

चतुरश्राः परिमण्डला वा धिष्णियाः ५

06 तेषां यावत्य इष्टकास्तावतीः ...{Loading}...

तेषां यावत्य इष्टकास्तावतीः शर्कराः परिश्रिताः ६

07 तव श्रिये व्यजिहीति ...{Loading}...

तव श्रिये व्यजिहीति पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अति यदर्यो अर्हात् । बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैरिति तिस्रो ब्रह्मसदने ७

08 यमो दाधार पृथिवीं ...{Loading}...

यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्तस्थे यत्प्राणद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते । त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दांसि सर्वा ता यम आहितेति तिस्रो मार्जालीये ८

इत्येकविंशी कण्डिका


  1. TS IV.7.14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.4.11.3-4. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.4.11.4. ↩︎