01 ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन …{Loading}…
ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियांश्चिनोति १

02 अश्मनवमा आग्नीध्रीय उपदधाति …{Loading}…
अश्मनवमा आग्नीध्रीय उपदधाति २
थिते
- (He places) (eight bricks) with a stone as the ninth on the Dhiṣṇya of Āgnīdhra.1
अश्मनवमा आग्नीध्रीय उपदधाति २
03 द्वादश षोडशैकविंशतिञ् चतुर्विंशतिं …{Loading}…
द्वादश षोडशैकविंशतिं चतुर्विंशतिं वा होत्रीये । एकादश ब्राह्मणाच्छंसीये । षण्मार्जालीये ३

04 अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते …{Loading}…
अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते ४
थिते
- It is known (from a Brāhmaṇa-text) that he places eight (bricks) on each other Dhiṣṇyas.
अष्टावष्टावन्येषु धिष्णियेषूपदधातीति विज्ञायते ४
05 चतुरश्राः परिमण्डला वा …{Loading}…
चतुरश्राः परिमण्डला वा धिष्णियाः ५
थिते
- The Dhiṣṇyas should be four-sided or round.
चतुरश्राः परिमण्डला वा धिष्णियाः ५
06 तेषां यावत्य इष्टकास्तावतीः …{Loading}…
तेषां यावत्य इष्टकास्तावतीः शर्कराः परिश्रिताः ६
थिते
- He encloses them with as many pebble-stones as many bricks there are.1
तेषां यावत्य इष्टकास्तावतीः शर्कराः परिश्रिताः ६
07 तव श्रिये व्यजिहीति …{Loading}…
तव श्रिये व्यजिहीति पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् । बृहस्पते अति यदर्यो अर्हात् । बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैरिति तिस्रो ब्रह्मसदने ७

08 यमो दाधार पृथिवीं …{Loading}…
यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्तस्थे यत्प्राणद्वायुरक्षितम् । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते । त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दांसि सर्वा ता यम आहितेति तिस्रो मार्जालीये ८

इत्येकविंशी कण्डिका