२०

01 ऋताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै ...{Loading}...

ऋताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमामाहुतिं जुहोति । ताभ्यः स्वाहेत्युत्तराम् १

02 एवमितरान्पर्यायान्विभजति ...{Loading}...

एवमितरान्पर्यायान्विभजति २

03 भुवनस्य पत इति ...{Loading}...

भुवनस्य पत इति पर्यायाणां सप्तम्याहुतीनां त्रयोदशी ३

04 एतेन व्याख्यातम् ...{Loading}...

एतेन व्याख्यातम् ४

05 भुवनस्य पत इति ...{Loading}...

भुवनस्य पत इति रथमुखे पञ्चाहुतीर्जुहोति । दश वा ५

06 उपर्याहवनीये रथशिरो धार्यमाणमभिजुहोतीत्येके ...{Loading}...

उपर्याहवनीये रथशिरो धार्यमाणमभिजुहोतीत्येके ६

07 अभिहुतमुद्यम्याध्वर्योरावसथं हरन्ति ...{Loading}...

अभिहुतमुद्यम्याध्वर्योरावसथं हरन्ति ७

08 अनुनयन्ति त्रीनश्वान् चतुरो ...{Loading}...

अनुनयन्ति त्रीनश्वान् । चतुरो वा ८

09 तान्सरथानध्वर्यवे ददाति ...{Loading}...

तान्सरथानध्वर्यवे ददाति ९

10 वडबा इत्येकेषाम् वडबे ...{Loading}...

वडबा इत्येकेषाम् । वडबे इत्येकेषाम् १०

11 समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीणि ...{Loading}...

समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीणि वातनामानि जुहोति ११

12 नह्येतस्यावदानमस्तीति विज्ञायते ...{Loading}...

नह्येतस्यावदानमस्तीति विज्ञायते १२

13 कृष्णाजिनपुटेन वातञ् जुहोतीत्येके ...{Loading}...

कृष्णाजिनपुटेन वातं जुहोतीत्येके १३

14 अग्न उदधे या ...{Loading}...

अग्न उदधे या त इषुर्युवा नामेति पञ्चाज्याहुतीर्हुत्वा समीची नामासि प्राची दिगिति दध्ना मधुमिश्रेण षट् सर्पाहुतीरनुपरिचारम् १४

15 हेतयो नाम स्थेति ...{Loading}...

हेतयो नाम स्थेति षण्महाहुतीर्यथा सर्पाहुतीः १५

16 सुवर्न घर्म स्वाहेति ...{Loading}...

सुवर्न घर्म स्वाहेति पञ्चार्काहुतीः १६

17 यास्ते अग्ने सूर्ये ...{Loading}...

यास्ते अग्ने सूर्ये रुच इति तिस्रो रुचः १७

18 वेद्यास्तरणादि सौमिकङ् कर्म ...{Loading}...

वेद्यास्तरणादि सौमिकं कर्म प्रतिपद्यते १८

19 यत्प्राग्धिष्णियनिवपनात्तत्कृत्वा ...{Loading}...

यत्प्राग्धिष्णियनिवपनात्तत्कृत्वा १९

इति विंशी कण्डिका


  1. The Rāṣṭrabhr̥t libations are mentioned in TS III.4.7. The first six (a-f) end with tasmai svāhā, tābhyaḥ svāhā and have two parts each. With them twelve libations are to be offered. The 13th libation is offered with TS III.4.7.g and it also should end with tasmai svāḥā, tabḥyaḥ svāhā. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.4.9.3. If the libations are five then TS IV.4.7.g-1 are used. If there are ten then g-m are used-the h and I are divided into two each. Thus g, h(a), h(b), l(a), [(b), k(a), k(b), 1(a), (b), ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS V.5.10.a. ↩︎

  4. Cf. TS V.5.10.5-6. The first libation in the east, the second in the south, the third in the west, the fourth in the north and the fifth and sixth in the middle. ↩︎