१९

01 वाजप्रसवीयञ् जुहोति ...{Loading}...

वाजप्रसवीयं जुहोति १

02 सप्त ग्राम्या ओषधयः ...{Loading}...

सप्त ग्राम्या ओषधयः सप्तारण्याः २

03 पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण ...{Loading}...

पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वारण्या जुहोति ३

04 हुत्वाहुत्वा पात्र्यां सम्पातमवनयति ...{Loading}...

हुत्वाहुत्वा पात्र्यां सम्पातमवनयति ४

05 दक्षिणम् प्रत्यपिपक्षमौदुम्बरीमासन्दीम् प्रतिष्ठाप्य ...{Loading}...

दक्षिणं प्रत्यपिपक्षमौदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं सम्पातैरभिषिञ्चति ५

06 व्याघ्रचर्मणि राजन्यम् बस्ताजिने ...{Loading}...

व्याघ्रचर्मणि राजन्यम् । बस्ताजिने वैश्यम् । कृष्णाजिने ब्रह्मवर्चसकामम् ६

07 बस्ताजिने पुष्टिकाममित्येके ...{Loading}...

बस्ताजिने पुष्टिकाममित्येके ७

08 देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ...{Loading}...

देवस्य त्वेत्यनुद्रुत्याग्नेस्त्वा साम्राज्येनाभिषिञ्चामीति ब्राह्मणम् । इन्द्रस्येति राजन्यम् । बृहस्पतेरिति वैश्यम् ८

09 राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति ...{Loading}...

राजन्यवैश्ययोर्मन्त्रविपर्यासमेके समामनन्ति ९

10 प्राङ्मुखमासीनम् प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति ...{Loading}...

प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठञ्शीर्षतोऽभिषिच्या मुखादन्ववस्रावयति १०

11 तदाहुर्होतव्यमेव नहि सुषुवाणः ...{Loading}...

तदाहुर्होतव्यमेव नहि सुषुवाणः कम्चन प्रत्यवरोहतीति ११

12 नक्तोषासेति कृष्णायै श्वेतवत्सायै ...{Loading}...

नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा षड्भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोति १२

इत्येकोनविंशी कण्डिका


  1. Cf. TS V.4.9. The name is basd on the beginning words of the first verse vājasyemaṁ prasavaḥ. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.7.10.a-g, IV.7.12.a-g. ↩︎ ↩︎ ↩︎

  3. Cf. ŚB IX.3.4.10. ↩︎ ↩︎ ↩︎

  4. Cf. TS V.6.3.2. ↩︎

  5. Cf. ŚB IX.3.4.15. ↩︎