१७

01 यदि कामयेत क्षत्रं ...{Loading}...

यदि कामयेत क्षत्रं विश ओजीयः स्यादिति ग्रामेऽनुवाक्यस्य त्रीणि चत्वारि वा पदान्यनुद्रुत्यारण्येऽनुवाक्यमनुद्रुत्य ग्रामेऽनुवाक्यस्य शेषेण जुहुयात् १

02 एवमादितस्त्रिभिर्गणैर्हुत्वारण्येऽनुवाक्येन जुहुयात् ...{Loading}...

एवमादितस्त्रिभिर्गणैर्हुत्वारण्येऽनुवाक्येन जुहुयात् २

03 यथा पूर्वैरेवन् त्रिभिरुत्तरैर्गणैः ...{Loading}...

यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ३

04 यदि कामयेत विट् ...{Loading}...

यदि कामयेत विट् क्षत्रादोजीयसी स्यादिति यथासमाम्नातमादितस्त्रिभिर्गणैर्हुत्वारण्येऽनुवाक्यस्य षट्सु पदान्तरालेषु षद्गणानोप्यारण्ये ऽनुवाक्येन जुहुयात् ४

05 यथा पूर्वैरेवन् त्रिभिरुत्तरैर्गणैः ...{Loading}...

यथा पूर्वैरेवं त्रिभिरुत्तरैर्गणैः ५

06 न सम्प्रेष्यति न ...{Loading}...

न सम्प्रेष्यति न सम्मार्ष्टि नानूयाजान्यजति ६

07 यङ् कामयेत क्षत्रेणास्य ...{Loading}...

यं कामयेत क्षत्रेणास्य क्षत्रं हन्यात्प्र स्वादायतनाच्च्यवेतेति तस्यारण्येऽनुवाक्येनाग्निष्ठं रथवाहनं वा व्यङ्गयेदित्ययज्ञसंयुक्तः कल्पः ७

08 अग्नाविष्णू सजोषसेति चतुर्गृहीतं ...{Loading}...

अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति सन्ततां वसोर्धारां जुहोत्या मन्त्रसमापनात् ८

09 यङ् कामयेत प्राणानस्यान्नाद्यं ...{Loading}...

यं कामयेत प्राणानस्यान्नाद्यं वि छिन्द्यामिति विग्राहं तस्येत्युक्तम् ९

10 यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनम् पक्त्वा ...{Loading}...

यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् । चतुःशरावं वौदनं पक्त्वा तद्व्यञ्जनं भोजयेत् १०

11 प्राशितवद्भ्यश्चतस्रो धेनूर्दद्यात् ...{Loading}...

प्राशितवद्भ्यश्चतस्रो धेनूर्दद्यात् ११

12 समुद्रादूर्मिरिति तिस्रः ...{Loading}...

समुद्रादूर्मिरिति तिस्रः १२

इति सप्तदशी कण्डिका


  1. For Sūtras 1-3 cf. MS III.3. 10. The first sacrificial bread is to be offered with TS IV.6.5.0 (idr̥ṅ cānyādr̥ṅ caitādr̥ṅ ca.) Then he adds forest-formula ugraśca dhuniśca…. Then he recites the remaining part of the formula (TS IV.6.5.0). Similar is to be done in connection with the second and third sacrificial bread. In connetion with the fourth or the middle one there is no change. Then three are to be performed in the same manner as that of the first three. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. MS III.3.10; KS XXI.10. ↩︎ ↩︎

  3. TS IV.7.1. (without a) upto 11. ↩︎

  4. Cf. TS V.4.8.1. ↩︎