१६

01 आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य …{Loading}…

आ वेदिप्रोक्षात्कृत्वा वैश्वानरस्य तन्त्रं प्रक्रमयति १

02 वेदङ् कृत्वाग्निम् परिस्तीर्य …{Loading}…

वेदं कृत्वाग्निं परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते २

03 यथार्थम् पात्रयोगः …{Loading}…

यथार्थं पात्रयोगः ३

04 निर्वपणकाले वैश्वानरन् द्वादशकपालन् …{Loading}…

निर्वपणकाले वैश्वानरं द्वादशकपालं निरुप्य सप्त मारुतान्सप्तकपालान्निर्वपति ४

05 तूष्णीमुपचरिता भवन्ति …{Loading}…

तूष्णीमुपचरिता भवन्ति ५

06 सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति …{Loading}…

सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति ६

07 आज्यग्रहनकाले ध्रुवायामेव गृह्णाति …{Loading}…

आज्यग्रहनकाले ध्रुवायामेव गृह्णाति ७

08 प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते …{Loading}…

प्रोक्षणीनामभिमन्त्रणादि कर्म प्रतिपद्यते ८

09 स्तरणकालेऽपरेणाग्निम् बर्हिः स्तीर्त्वा …{Loading}…

स्तरणकालेऽपरेणाग्निं बर्हिः स्तीर्त्वा ध्रुवां स्रुवं च सादयति ९

10 एतावसदतामिति मन्त्रं सन्नमति …{Loading}…

एतावसदतामिति मन्त्रं सन्नमति १०

11 वेदन् निधाय सामिधेनीभ्यः …{Loading}…

वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ११

12 न सम्प्रेष्यति न …{Loading}…

न सम्प्रेष्यति न सम्मार्ष्टि न प्रयाजान्यजति १२

13 आज्यभागाभ्याम् प्रचर्य जुह्वामुपस्तीर्य …{Loading}…

आज्यभागाभ्यां प्रचर्य जुह्वामुपस्तीर्य कृत्स्नं वैश्वानरमवदाय द्विरभिघार्योच्चैर्वैश्वानरस्याश्रावयति १३

14 उपांशु मारुतान्सर्वहुताञ्जुहोति …{Loading}…

उपांशु मारुतान्सर्वहुताञ्जुहोति १४

15 ईदृङ् चान्यादृङ् चेति …{Loading}…

ईदृङ् चान्यादृङ् चेति सप्तभिर्गुणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुताञ्जुहोति १५

16 मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके …{Loading}…

मध्येऽरण्येऽनुवाक्येन गणेनगणेन जुहोतीत्येके १६

17 मारुतैः सर्वतो वैश्वानरम् …{Loading}…

मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके १७

18 स्वतवांश्च प्रघासी च …{Loading}…

स्वतवांश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातः १८

19 मितासश्च सम्मितासश्च न …{Loading}…

मितासश्च सम्मितासश्च न इति सर्वत्रानुषजति १९

इति षोडशी कण्डिका


  1. The ritual described in VII.7.2. and then the ritual mentioned in VI.8.5.(b)-9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See I.14.14-15, (See also I.15.3). (See I.15.4-5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. From XVII.16.2-XVII.17.7 the ritual of the offering to Vaiśvānara and Maruts is described. ↩︎ ↩︎