१५

01 प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य ...{Loading}...

प्राचीमनु प्रदिशमिति पञ्चभिरग्निमधिरुह्य नक्तोषासाग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्नः पूर्णामौदुम्बरीं स्वयमातृणायां जुहोति १

02 नक्तोषासेति कृष्णायै श्वेतवत्सायै ...{Loading}...

नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति २

03 पयसा व्याघारयतीत्येके ...{Loading}...

पयसा व्याघारयतीत्येके ३

04 ऊर्णावन्तम् प्रथमः सीद ...{Loading}...

ऊर्णावन्तं प्रथमः सीद योनिमिति होतुरभिज्ञाय पाशुकान्सम्भारान्न्युप्य सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृणायामग्निं प्रतिष्ठाप्य प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति ४

05 दिधेम ते परमे ...{Loading}...

दिधेम ते परमे जन्मन्नग्न इति वैकङ्कतीम् ५

06 तां सवितुर्वरेण्यस्य चित्रामिति ...{Loading}...

तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ६

07 चित्तिञ् जुहोमि अग्ने ...{Loading}...

चित्तिं जुहोमि । अग्ने तमद्याश्वमिति द्वे आहुती हुत्वा द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधः सप्त जिह्वा इति सप्तवत्या पूर्णाहुतिं जुहोति ७

08 ताञ् जुह्वदिह सोऽस्त्विति ...{Loading}...

तां जुह्वदिह सोऽस्त्विति दिग्भ्योऽग्निं मनसा ध्यायति ८

इति पञ्चदशी कण्डिका


  1. Cf. TS V.4.7.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.6.5.a-e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. KS XXI.9. The first verse is to be used as the invitattory formula and the second as the offering formula. ↩︎ ↩︎ ↩︎

  4. TS IV.6.5.f-g. ↩︎ ↩︎ ↩︎

  5. Cf. TS V.4.7.3. ↩︎ ↩︎