१४

01 षोडशगृहीतेन स्रुचम् पूरयित्वा ...{Loading}...

षोडशगृहीतेन स्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति १

02 य इमा विश्वा ...{Loading}...

य इमा विश्वा भुवनानि जुह्वत् । चक्षुषः पिता मनसा हि धीर इति नानासूक्ताभ्यां द्वे आहुती २

03 यङ् कामयेत चिरम् ...{Loading}...

यं कामयेत चिरं पाप्मनो निर्मुच्येतेत्येकैकं तस्येत्युक्तम् ३

04 यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय ...{Loading}...

यद्येनमुदके भीर्विन्देदुदकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुयादित्ययज्ञसंयुक्तः कल्पः ४

05 उदेनमुत्तरान् नयेत्यौदुम्बरीः समिधो ...{Loading}...

उदेनमुत्तरां नयेत्यौदुम्बरीः समिधो घृतोषितास्तिसृभिस्तिस्र आधाय पशुबन्धवदग्निं प्रणयति ५

06 उदु त्वा विश्वे ...{Loading}...

उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य पञ्च दिशो दैवीरिति पञ्चभिर्हरत्याग्नीध्रात् ६

07 आशुः शिशान इति ...{Loading}...

आशुः शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति । मैत्रावरुणः प्रतिप्रस्थाता वा ७

08 यङ् कामयेत राष्ट्रं ...{Loading}...

यं कामयेत राष्ट्रं स्यादिति तमेतेन सन्नह्यान्वियात् । सङ्ग्रामे संयत्ते होतव्यम् । तैजनो मान्धुको वेध्मो भवतीत्ययज्ञसंयुक्तः कल्पः ८

09 विमान एष दिवो ...{Loading}...

विमान एष दिवो मध्य आस्त इति द्वाभ्यामाग्नीध्रेऽश्मानं निधायेन्द्रं विश्वा अवीवृधन्निति चतसृभिरा पुच्छाद्गत्वा ९

इति चतुर्दशी कण्डिका


  1. Cf. MS III.3.7; ŚB IX.9.2.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.4.5.4.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.6.2.i-q; KS XXI.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. MS III.3.8; KS XXI.8. ↩︎ ↩︎ ↩︎

  5. The sentence is not complete. It will be completed in the next Sūtra. ↩︎