१३

01 जुह्वाम् पञ्चगृहीतङ् गृहीत्वा ...{Loading}...

जुह्वां पञ्चगृहीतं गृहीत्वा स्वयं कृण्वान इति द्वे १

02 अतिसर्गन् ददतो मानवायर्जुम् ...{Loading}...

अतिसर्गं ददतो मानवायर्जुं पन्थामनुपश्यमानाः । अजुषन्त मरुतो यज्ञमेतं वृष्टिं देवानाममृतं स्वर्विदम् । आवर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जनयन्विरूपाः । संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः पुरस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभिसंविशन्त्विति पञ्चान्वारोहान्हुत्वापरं पञ्चगृहीतं गृहीत्वा कार्ष्णी उपानहावुपमुञ्चते । एकां वा २

03 चिते त्वेति दक्षिणाम् ...{Loading}...

चिते त्वेति दक्षिणाम् । अनुचिते त्वेत्युत्तराम् ३

04 एवं यजमानः ...{Loading}...

एवं यजमानः ४

05 अपामिदन् न्ययनम् नमस्ते ...{Loading}...

अपामिदं न्ययनम् । नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमधिरोहति । पृथिवीमाक्रमिषमित्येतैर्यजमानः ५

06 नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं ...{Loading}...

नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं स्वयमातृणां वा व्याघार्य ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाग्निं व्यवोक्ष्य कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरुह्याग्निस्तिग्मेनेति द्वाभ्यामग्नये ऽनीकवत एकामाहुतिं हुत्वा ६

इति त्रयोदशी कण्डिका


  1. TB II.4.2.5-6. ↩︎ ↩︎ ↩︎

  2. Cp. MS II.13.21; cp. KS XL.12. ↩︎ ↩︎ ↩︎

  3. Cf. TS V.4.4.4. ↩︎ ↩︎ ↩︎

  4. Cf. TS V.4.4.4. ↩︎ ↩︎

  5. Baudhass X.23. ↩︎ ↩︎

  6. BaudhāśS X.23. ↩︎ ↩︎

  7. TS IV.6.1.r-s. This sentence in this Sūtra is not complete. It is completed in following Sūtra. ↩︎