01 जुह्वाम् पञ्चगृहीतङ् गृहीत्वा …{Loading}…
जुह्वां पञ्चगृहीतं गृहीत्वा स्वयं कृण्वान इति द्वे १
थिते
- Having taken five-times-scooped ghee into the Juhū, (the Adhvaryu) offers two libations of ghee with svayaṁ kr̥ṇvānaḥ…1
जुह्वां पञ्चगृहीतं गृहीत्वा स्वयं कृण्वान इति द्वे १
02 अतिसर्गन् ददतो मानवायर्जुम् …{Loading}…
अतिसर्गं ददतो मानवायर्जुं पन्थामनुपश्यमानाः । अजुषन्त मरुतो यज्ञमेतं वृष्टिं देवानाममृतं स्वर्विदम् । आवर्तमानो भुवनस्य मध्ये प्रजा विकुर्वञ्जनयन्विरूपाः । संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः पुरस्तात् । प्रजां ददातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभिसंविशन्त्विति पञ्चान्वारोहान्हुत्वापरं पञ्चगृहीतं गृहीत्वा कार्ष्णी उपानहावुपमुञ्चते । एकां वा २

03 चिते त्वेति दक्षिणाम् …{Loading}…
चिते त्वेति दक्षिणाम् । अनुचिते त्वेत्युत्तराम् ३

04 एवं यजमानः …{Loading}…
एवं यजमानः ४
थिते
- The sacrificer (does) in a similar way.
एवं यजमानः ४
05 अपामिदन् न्ययनम् नमस्ते …{Loading}…
अपामिदं न्ययनम् । नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमधिरोहति । पृथिवीमाक्रमिषमित्येतैर्यजमानः ५

06 नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं …{Loading}…
नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं स्वयमातृणां वा व्याघार्य ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाग्निं व्यवोक्ष्य कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरुह्याग्निस्तिग्मेनेति द्वाभ्यामग्नये ऽनीकवत एकामाहुतिं हुत्वा ६
थिते
- With five formulae beginning with nr̥ṣade vaṭ1 having poured ghee on the Fire-altar or the naturally peforated stone in the same manner as that of Uttara-Vedi,2 having sprinkled3 curds mixed with honey on the fire-alar by means of a handful of Darbha grass while going around (the altar) with two verses beginning with devā devānām4 (and) having made (the Fire altar) spotted like a tortoise, having descended (the fire-altar) with prāṇada apanadāḥ…5 (then) having made a libation of ghee to Agni Anīkavat6 with two (verses beginning with) agnistigmena,7
नृषदे वडिति पञ्चभिरुत्तरवेदिवदग्निं स्वयमातृणां वा व्याघार्य ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिनाग्निं व्यवोक्ष्य कूर्मपृषन्तं कृत्वा प्राणदा अपानदा इति प्रत्यवरुह्याग्निस्तिग्मेनेति द्वाभ्यामग्नये ऽनीकवत एकामाहुतिं हुत्वा ६
इति त्रयोदशी कण्डिका