१२

01 यो रुद्रो अग्नाविति ...{Loading}...

यो रुद्रो अग्नाविति रौद्रं गावीधुकं चरुम् १

02 एतेन यजुषा यस्यामिष्टकायां ...{Loading}...

एतेन यजुषा यस्यामिष्टकायां शतरुद्रीयं जुहोति तस्यां प्रतिष्ठापयति २

03 तिसृधन्वमयाचितं यजमानो ब्राह्मणाय ...{Loading}...

तिसृधन्वमयाचितं यजमानो ब्राह्मणाय दत्त्वा यत्ते रुद्र पुरो धनुरित्येतैर्यथालिङ्गमुपतिष्ठते ३

04 उदकुम्भमादायाध्वयुरश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निम् ...{Loading}...

उदकुम्भमादायाध्वयुरश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्चन्पर्येति ४

05 निधाय कुम्भमश्मंस्ते क्षुदमुन् ...{Loading}...

निधाय कुम्भमश्मंस्ते क्षुदमुं ते शुगृच्छतु यं द्विष्म इति त्रिरपरिषिञ्चन्प्रतिपर्येति ५

06 यद्यभिचरेदिदमहममुष्यामुष्यायणस्यायुः प्रक्षिणोमीति दक्षिणस्यामुत्तरस्यां ...{Loading}...

यद्यभिचरेदिदमहममुष्यामुष्यायणस्यायुः प्रक्षिणोमीति दक्षिणस्यामुत्तरस्यां वा स्रक्त्यां कुम्भं प्रक्षिणुयात् ६

07 अवका वेतसशाखाम् मण्डूकञ् ...{Loading}...

अवका वेतसशाखां मण्डूकं च दीर्घवंशे प्रबध्य समुद्रस्य त्वावाकयेति सप्तभिरष्टाभिर्वाग्निं विकर्षति ७

08 विकर्षन्नेवानुगमयित्वा मण्डूकस्य प्राणान्सर्वान्संलोभ्योत्कर ...{Loading}...

विकर्षन्नेवानुगमयित्वा मण्डूकस्य प्राणान्सर्वान्संलोभ्योत्कर उदस्येति ८

09 यन् द्विष्यात्तमेतैरुपस्पृशेत् ...{Loading}...

यं द्विष्यात्तमेतैरुपस्पृशेत् ९

10 पृष्ठैरुपतिष्ठते गायत्रेण पुरस्तात् ...{Loading}...

पृष्ठैरुपतिष्ठते । गायत्रेण पुरस्तात् । बृहद्रथन्तराभ्यां पक्षौ । ऋतुस्थायज्ञायज्ञियेन पुच्छम् । दक्षिणस्यां श्रोण्यां वारवन्तीयेन । उत्तरस्यां वामदेव्येन १०

11 अपिपक्षे प्रजापतेः सामानृचङ् ...{Loading}...

अपिपक्षे प्रजापतेः सामानृचं गायति ११

12 पिता मातरिश्वेति सञ्चितोक्थ्येन ...{Loading}...

पिता मातरिश्वेति सञ्चितोक्थ्येन होतानुशंसति १२

13 होतर्यकामयमानेऽध्वर्युः स्तुतशस्त्रयोर्दोहे यजमानं ...{Loading}...

होतर्यकामयमानेऽध्वर्युः स्तुतशस्त्रयोर्दोहे यजमानं वाचयति १३

14 स्तुतस्य स्तुतमसीत्यत्र प्रवर्ग्यमुद्वासयति ...{Loading}...

स्तुतस्य स्तुतमसीत्यत्र प्रवर्ग्यमुद्वासयति १४

इति द्वादशी कण्डिका


  1. TS V.5.9.i. For the contents in this Sūtra cf. TS V.4.3.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus in the east, south, west and north. The fifth formula is to be used in the manner mentioned in XVII. 10.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.3.6; ŚB IX.1.2.31. ↩︎ ↩︎

  4. Cf. TS V.4.4.3. ↩︎

  5. TS IV.6.1.c.k. ↩︎