११

01 सहस्रस्य प्रमा असीति ...{Loading}...

सहस्रस्य प्रमा असीति सहस्रेण हिरण्यशल्कैरूर्ध्वस्तिष्ठन्प्रतिदिशमग्निं प्रोक्षति द्वाभ्यान्द्वाभ्यां शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः १

02 इमा मे अग्न ...{Loading}...

इमा मे अग्न इष्टका धेनवः सन्त्वितीष्टका धेनूर्यजमानः कुरुते २

03 ऐडिक्या चित्याध्वर्युरग्निमभिमृश्य शतरुद्रीयञ् ...{Loading}...

ऐडिक्या चित्याध्वर्युरग्निमभिमृश्य शतरुद्रीयं जुहोति जर्तिलयवाग्वा गवीधुकयवाग्वा वा जर्तिलैर्गवीधुकसक्तुभिः कुसयसर्पिषाजाक्षीरेण मृगीक्षीरेण वार्कपर्णेनोदङ्तिष्ठन् । उत्तरस्य पक्षस्योत्तरापरस्यां स्रक्त्यां विकर्ण्यां स्वयमातृणायामनुपरिचारं वा ३

04 नमस्ते रुद्र मन्यव ...{Loading}...

नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रैधं विभज्यापि वा प्रथमादुपक्रम्य नमस्तक्षभ्य इति जानुदघ्ने धारयमाणो रथकारेभ्यश्च व इत्युपक्रम्य नमः स्वायुधायेति नभिदघ्ने शेषेण प्रागवतानेभ्य आस्यदघ्ने हुत्वा सहस्राणि सहस्रश इति दशावतानान्हुत्वान्वारोहाञ्जुहोति ४

05 नमो रुद्रेभ्यो ये ...{Loading}...

नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने धारयमाणो नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यवरीहान्हुत्वा सञ्चरे पशूनामर्कपर्णमुदस्यति ५

06 यन् द्विष्यात्तस्य सञ्चरे ...{Loading}...

यं द्विष्यात्तस्य सञ्चरे यस्य रुद्रः प्रजां पशून्वाभिमन्येतोदङ् परेत्य रुद्राञ्जपंश्चरेदित्ययज्ञसंयुक्तः कल्पः ६

इत्येकादशी कण्डिका


  1. TS IV.4.11.o ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XXI.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS.V.4.2.3-4. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cf. ŚB VII.7.4.10 ↩︎ ↩︎ ↩︎ ↩︎

  5. Cf. and cp. in general TS V.4.3.2-3. ↩︎