१०

01 ऋचा त्वा छन्दसा …{Loading}…

ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयाम्युद्गीथेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामीति सप्त च्छन्दस्याः १

02 अग्ने यशस्विन्निति चतस्रो …{Loading}…

अग्ने यशस्विन्निति चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतो मुखमुपदधाति २

03 गायत्रीम् पुरस्तादुपदधातीत्युक्तम् …{Loading}…

गायत्रीं पुरस्तादुपदधातीत्युक्तम् ३

04 अथैकेषाम् गायत्रीम् पुरस्तादुपदधाति …{Loading}…

अथैकेषाम् । गायत्रीं पुरस्तादुपदधाति त्रिष्टुभं दक्षिणतो जगतीं पश्चादनुष्टुभमुत्तरतः पङ्क्तिं मध्ये । इत्येताभिः सर्वाभिः सर्वतो मुखमुपदधाति ४

05 गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः …{Loading}…

गायत्र्यादयो भवन्ति पङ्क्त्युदयनाः ५

06 अग्निर्मूर्धा भुवः जनस्य …{Loading}…

अग्निर्मूर्धा । भुवः । जनस्य गोपाः । त्वां चित्रश्रवस्तम । अग्ने तमद्याश्वमित्येता आम्नाता भवन्ति ६

07 अग्न आ याहि …{Loading}…

अग्न आ याहि वीतय इति चैताभिः सर्वतो मुखमुपदधाति ७

08 लोकम्पृणाभिरित्येके …{Loading}…

लोकम्पृणाभिरित्येके ८

09 अत्र वा विकर्णीं …{Loading}…

अत्र वा विकर्णीं स्वयमातृणां चोपदध्यात् ९

10 लोकम्पृणादिश्चित्यन्तः …{Loading}…

लोकम्पृणादिश्चित्यन्तः १०

11 अग्ने युक्ष्वा हि …{Loading}…

अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति द्वाभ्यां सञ्चितमग्निमभिमृश्य वसवस्त्वा रुद्रैः पुरस्तात्पान्त्वित्येतैर्यथालिङ्गं सञ्चितमग्निमाज्येन प्रोक्षति । मध्य उत्तमेन प्राङ्मुखः ११

इति दशमी कण्डिका


  1. Cp. MS II.14.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS V.7.4.e. ↩︎ ↩︎

  3. Cf. TS V.5.3.1-5. ↩︎

  4. TS IV.2.9.1. ↩︎