०९

01 यज्ञायज्ञा वो अग्नये ...{Loading}...

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियम् मित्रं न शंसिषम् । प्रियं मित्रं न शंसिषम् । ऊर्जो नपातं स हिनायमस्मयुः । दाशेम हव्यदातये । दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृधः । उत त्राता तनूनामिति यज्ञायज्ञियं पुच्छे १

02 तस्य रथन्तरवत्कल्पः ...{Loading}...

तस्य रथन्तरवत्कल्पः २

03 त्वामग्ने वृषभमित्यृषभमुपधाय संवत्सरस्य ...{Loading}...

त्वामग्ने वृषभमित्यृषभमुपधाय संवत्सरस्य प्रतिमामिति प्राजापत्याम् ३

04 शतायुधाय शतवीर्यायेति पञ्चाज्यानीः ...{Loading}...

शतायुधाय शतवीर्यायेति पञ्चाज्यानीः प्रतिदिशमेकां मध्ये ४

05 इन्द्रस्य वज्रोऽसीति चतस्रो ...{Loading}...

इन्द्रस्य वज्रोऽसीति चतस्रो वज्रिणीः प्रतिदिशमश्मन इषुहस्त उपदधाति ५

06 इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा ...{Loading}...

इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो न उपरिष्टादघायुरभिदासत्येतं सोऽश्मानमृच्छत्विति मध्ये पञ्चमीमेके समामनन्ति ६

07 पृथिव्यै त्वान्तरिक्षाय त्वा ...{Loading}...

पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति तिस्रो लोकेष्टकाः ७

08 अग्नये त्वा पवमानायाग्नये ...{Loading}...

अग्नये त्वा पवमानायाग्नये त्वा पावकायाग्नये त्वा शुचय इति तिस्रः पावमानीः ८

इति नवमी कण्डिका


  1. KS XXXIX.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. T V.7.2.b. For this Sūtra cf. TS V.7.2.1-2. ↩︎ ↩︎ ↩︎