०८

01 दक्षिणत आत्मनि ...{Loading}...

दक्षिणत आत्मनि १

02 इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ...{Loading}...

इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । ववक्षुरुग्रो अस्तृत इत्यथर्वशिरो दशातिषक्ताः २

03 पूर्वार्धे विद्यते शिरसो ...{Loading}...

पूर्वार्धे विद्यते शिरसो निरूहणम् । न विद्यत इत्यपरम् ३

04 अभि त्वा शूर ...{Loading}...

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः । ईशानमिन्द्र तस्थुषः । न त्वावाँ अन्यो दिव्यो न पार्थिवः । न जातो न जनिष्यते अश्वायन्तो मघवन्निन्द्र वाजिनः । गव्यन्तस्त्वा हवामह इति रथन्तरं दक्षिणे पक्षेऽध्यात्मन्नपवर्गः ४

05 प्रथमामुपधाय द्वितीयामथ विशयाम् ...{Loading}...

प्रथमामुपधाय द्वितीयामथ विशयाम् ५

06 अर्धमात्मन्यर्धम् पक्षे ...{Loading}...

अर्धमात्मन्यर्धं पक्षे ६

07 त्वामिद्धि हवामहे साता ...{Loading}...

त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः । त्वां काष्ठास्वर्वतः । स त्वं नश्चित्र वज्रहस्त धृष्णुया । महस्तवानो अद्रिवः । मह स्तवानो अद्रिवः । गामश्वं रथ्यमिन्द्र सं किर । सत्रा वाजं न जिग्युष इति बृहदुत्तरे पक्षे ७

08 तस्य रथन्तरवत्कल्पः ...{Loading}...

तस्य रथंतरवत्कल्पः ८

इत्यष्टमी कण्डिका


  1. Read this Sūtra along with XVII.7.8. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.6.6.3. ↩︎ ↩︎

  3. The word pūrvārdhe of the Sūtra 3 in Garbe’s text should be brought here. Cf. also Mass VI.2.2.20. ↩︎