०७

01 हिरण्यगर्भः समवर्तताग्र इत्यष्टौ ...{Loading}...

हिरण्यगर्भः समवर्तताग्र इत्यष्टौ सरितः १

02 विश्वकर्मा दिशाम् पतिरिति ...{Loading}...

विश्वकर्मा दिशां पतिरिति पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये २

03 प्राणाय त्वा चक्षुषे ...{Loading}...

प्राणाय त्वा चक्षुषे त्वेति चतस्रः स्वयमातृणाः प्रतिदिशम् ३

04 अग्न आ याहि ...{Loading}...

अग्न आ याहि वीतये । अग्निं दूतं वृणीमहे । अग्निनाग्निः समिध्यते । अग्निर्वृत्राणि जङ्घनत् । अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशम् । देवस्य द्रविणस्यव इति पञ्चाह्नां रूपाणि ४

05 अथ व्रतमुपदधाति ...{Loading}...

अथ व्रतमुपदधाति ५

06 प्राच्या त्वा दिशा ...{Loading}...

प्राच्या त्वा दिशा सादयामीति पञ्चात्मेष्टकाः प्रतिदिशमेकां मध्ये ६

07 संयच्च प्रचेताश्चेति पञ्च ...{Loading}...

संयच्च प्रचेताश्चेति पञ्च वैश्वदेवीरात्मनि द्वेष्यं मनसा ध्यायन् ७

08 कया नश्चित्र आ ...{Loading}...

कया नश्चित्र आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु । अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिरिति वामदेव्यम् ८

इति सप्तमी कण्डिका


  1. TS V.5.5.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.5.6.2. ↩︎ ↩︎ ↩︎ ↩︎