०६

01 अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च ...{Loading}...

अभीषाच्चाभिषवी चाभिवयाश्चोर्ध्ववयाश्च बृहद्वयाश्च सवयाश्च सह्वांश्च सहमानश्च सहस्वांश्च सहीयांश्चेति दशेन्द्रनामानि १

02 अग्निना विश्वाषाडिति द्वाविंशतिमिन्द्रतनूः ...{Loading}...

अग्निना विश्वाषाडिति द्वाविंशतिमिन्द्रतनूः २

03 प्रजापतिर्मनसान्धोऽच्छेत इति त्रयस्त्रिंशतं ...{Loading}...

प्रजापतिर्मनसान्धोऽच्छेत इति त्रयस्त्रिंशतं यज्ञतनूः ३

04 ज्योतिष्मतीन् त्वा सादयामीति ...{Loading}...

ज्योतिष्मतीं त्वा सादयामीति द्वादश ज्योतिष्मतीः ४

05 पूर्णा पश्चादिति पौर्णमासीम् ...{Loading}...

पूर्णा पश्चादिति पौर्णमासीं पुरस्तादुपधाय कृत्तिका नक्षत्रमिति नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरसंस्पृष्टाः ५

06 पूर्वामुपधायापरामपरामा विशाखाभ्याम् ...{Loading}...

पूर्वामुपधायापरामपरामा विशाखाभ्याम् ६

07 दक्षिणेन स्वयमातृणां रीतिम् ...{Loading}...

दक्षिणेन स्वयमातृणां रीतिं प्रतिपादयति ७

08 यत्ते देवा अदधुरित्यमावास्याम् ...{Loading}...

यत्ते देवा अदधुरित्यमावास्यां पश्चादुपधायावशिष्टानां पूर्वाम्पूर्वामापभरणीभ्यः ८

09 उत्तरेण स्वयमातृणां रीतिम् ...{Loading}...

उत्तरेण स्वयमातृणां रीतिं प्रतिपादयति ९

10 पौर्णमासीमन्ततः ...{Loading}...

पौर्णमासीमन्ततः १०

11 ऋचे त्वा रुचे ...{Loading}...

ऋचे त्वा रुचे त्वेति सर्वासु नक्षत्रेष्टकाक्स्वनुषजति ११

इति षष्ठी कण्डिका


  1. KS XXXIX. 11 (with some changes). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.4.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.4.10.a and b. ↩︎