०५

01 अग्ने गोभिर्न आ ...{Loading}...

अग्ने गोभिर्न आ गहीत्यनुवाकेन प्रतिमन्त्रं पुनःपुनरभ्यासम् १

02 इन्द्राग्निभ्यान् त्वा सयुजा ...{Loading}...

इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मीत्यष्टौ सयुजः २

03 रोहितेषु त्वा जीमूतेषु ...{Loading}...

रोहितेषु त्वा जीमूतेषु सादयाम्यरुणेषु त्वा कृष्णेषु त्वा नीलेषु त्वा सितेषु त्वा जीमूतेषु सादयामीति पञ्च जीमूताः ३

04 अम्बा नामासीति सप्त ...{Loading}...

अम्बा नामासीति सप्त कृत्तिकाः ४

05 पुरोवातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारम् ...{Loading}...

पुरोवातसनिरसीति पञ्च वृष्टिसनीरनुपरिहारम् ५

06 सलिलाय त्वेत्यष्टावादित्येष्टकाः ...{Loading}...

सलिलाय त्वेत्यष्टावादित्येष्टकाः ६

07 ऋचे त्वा रुचे ...{Loading}...

ऋचे त्वा रुचे त्वेति पञ्च घृतेष्टका अनुपरिहारम् ७

08 आदित्येष्टकाभिघृतपिण्डान्व्यतिषक्तानिति वाजसनेयकम् ...{Loading}...

आदित्येष्टकाभिघृतपिण्डान्व्यतिषक्तानिति वाजसनेयकम् ८

09 यशोदान् त्वेति पञ्च ...{Loading}...

यशोदां त्वेति पञ्च यशोदाः ९

10 भूयस्कृदसीति पञ्च भूयस्कृतः ...{Loading}...

भूयस्कृदसीति पञ्च भूयस्कृतः १०

11 अप्सुषदसीति पञ्चाग्निरूपाणि ...{Loading}...

अप्सुषदसीति पञ्चाग्निरूपाणि ११

12 पृथिव्यास्त्वा द्रविणे सादयामीति ...{Loading}...

पृथिव्यास्त्वा द्रविणे सादयामीति पञ्च द्रविणोदाः १२

13 प्राणम् मे पाहीति ...{Loading}...

प्राणं मे पाहीति षडायुष्याः १३

14 अग्ने यत्ते परं ...{Loading}...

अग्ने यत्ते परं हृन्नामेत्यग्नेर्हृदयम् १४

15 यावा अयावा इति ...{Loading}...

यावा अयावा इति सप्तर्तव्याः १५

16 या देव्यसीष्टक आयुर्दा ...{Loading}...

या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपशेष्व जायेव पतिमित्सदा । या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दा श्रोत्रदा वाग्दा आत्मदाः पृथिविदा अन्तरिक्षदा द्यौर्दा स्वर्दाः कुमारीदाः प्रफर्विदाः प्रथमौपशदा युवतिदा उपशीवरी । सा मामुपशेष्व जायेव पतिमित्सदेति षोडशोपशीवरीः १६

इति पञ्चमी कण्डिका


  1. TS II.4.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.3.9.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.3.10.3-4. See also the next Sūtra and XVI. 13.10. For the circular manner see the note on 5th Sūtra above. ↩︎