०४

01 सुवरसि सुवर्मे यच्छेति ...{Loading}...

सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम् १

02 द्यौरपराजितेति मण्डलेष्टकाम् ...{Loading}...

द्यौरपराजितेति मण्डलेष्टकाम् २

03 अत्रैकां रेतःसिचं स्थविरस्य ...{Loading}...

अत्रैकां रेतःसिचं स्थविरस्य ३

04 प्रजापतिस्त्वा सादयतु दिवः ...{Loading}...

प्रजापतिस्त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ४

05 तपश्च तपस्यश्चेति द्वे ...{Loading}...

तपश्च तपस्यश्चेति द्वे ऋतव्ये समानतयादेवते ५

06 देवानां यान्यसि देवानान् ...{Loading}...

देवानां यान्यसि देवानां देवयान्यसीति द्वे संयान्यौ ६

07 संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं ...{Loading}...

संयान्यावृतव्ये विश्वज्योतिषं रेतःसिचं हिरण्येष्टकां मण्डलेष्टकां विकर्णीं स्वयमातृणामित्येवमनुपूर्वा एके समामनन्ति ७

08 आपराह्णिकीभ्याम् प्रचर्यौदुम्बरीः समिधो ...{Loading}...

आपराह्णिकीभ्यां प्रचर्यौदुम्बरीः समिधो घृते वासयति ८

09 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...

श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चम्याश्चितेः शेषं याज्ञसेनीं चितिं चिनोति ९

10 अग्निर्मूर्धेति तिस्रो गायत्रीः ...{Loading}...

अग्निर्मूर्धेति तिस्रो गायत्रीः पुरस्तादुपदधाति । एवमुत्तराणि त्रीणित्रीणि । त्रिष्टुभो दक्षिणतः । जगतीः पश्चात् । अनुष्टुभ उत्तरतः । बृहतीरुष्णिहाः पङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दांसि यथावकाशम् । अतिच्छन्दसं मध्ये । द्विपदा अन्ततः १०

11 अन्यत्र साहस्रात्पशुकामस्य गोचितिञ् ...{Loading}...

अन्यत्र साहस्रात्पशुकामस्य गोचितिं चिनोति ११

12 सहस्रम् पादमात्रीरिष्टकाः ...{Loading}...

सहस्रं पादमात्रीरिष्टकाः १२

13 ताः प्रथमायाञ् चित्याम् ...{Loading}...

ताः प्रथमायां चित्यां मध्यमायामुत्तमायां वोपदध्यात् १३

इति चतुर्थी कण्डिका


  1. TS V.7.6.c.c. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.7.6.2-3. Cp. XVI.23.9; XVII.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎