०३

01 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...

श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य पञ्चमीं चितिं चिनोति १

02 अग्ने जातान्प्र णुदा ...{Loading}...

अग्ने जातान्प्र णुदा नः सपत्नानिति पुरस्तादुपदधाति । सहसा जातानिति पश्चात् । चतुश्चत्वारिंश स्तोम इति दक्षिणतः । षोडश स्तोम इत्युत्तरतः २

03 इष्टकायाम् पुरीषमध्यूह्य पृथिव्याः ...{Loading}...

इष्टकायां पुरीषमध्यूह्य पृथिव्याः पुरीषमसीति मध्येऽग्नेः पुरीषवतीम् ३

04 एवश्छन्दो वरिवश्छन्द इति ...{Loading}...

एवश्छन्दो वरिवश्छन्द इति चत्वारिंशतं विराजो दशदश प्रतिदिश मक्ष्णया ४

05 रश्मिरसि क्षयाय त्वा ...{Loading}...

रश्मिरसि क्षयाय त्वा क्षयं जिन्वेति स्तोमभागाः । सप्तसप्त प्रतिदिशम् । अवशिष्टा मध्ये ५

06 राज्ञ्यसि प्राची दिगिति ...{Loading}...

राज्ञ्यसि प्राची दिगिति पञ्च नाकसदः प्रतिदिशमेकां मध्ये ६

07 तासु पुरीषमध्यूह्यायम् पुरो ...{Loading}...

तासु पुरीषमध्यूह्यायं पुरो हरिकेश इति पञ्चचोडा अभ्युपदधाति । द्वेष्यं मनसा ध्यायन्पश्चात्प्राचीमुत्तमाम् ७

08 आयोस्त्वा सदने सादयामीति ...{Loading}...

आयोस्त्वा सदने सादयामीति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य परमेष्ठी त्वा सादयतु दिवः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । सुवरिति चैतया व्याहृत्या ८

09 चित्तिञ् जुहोमीति स्वयमातृणायां ...{Loading}...

चित्तिं जुहोमीति स्वयमातृणायां हुत्वापान्य प्रोथदश्व इत्युत्तरेऽसें! विकर्णीम् ९

10 तेनान्याभिरिष्टकाभिरभ्युपदधाति ...{Loading}...

तेनान्याभिरिष्टकाभिरभ्युपदधाति १०

इति तृतीया कण्डिका


  1. For the formulae see IV.3.12.a-d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.3.5.1-2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V. 3.7.2-3. ↩︎ ↩︎

  4. Cf. TS V.5.5.3; cp. XVI.23.1.; XVII.1.12. ↩︎