०२

01 नभश्च नभस्यश्चेति चतस्र ...{Loading}...

नभश्च नभस्यश्चेति चतस्र ऋतव्याः । द्वेद्वे समानतयादेवते १

02 राज्ञ्यसि प्राची दिगिति ...{Loading}...

राज्ञ्यसि प्राची दिगिति पञ्च दिश्याः प्रतिदिशमेकां मध्ये २

03 आयुर्मे पाहीति दश ...{Loading}...

आयुर्मे पाहीति दश प्राणभृतः पुरस्तादुपधाय ३

04 षट्त्रिंशतम् बृहतीः मा ...{Loading}...

षट्त्रिंशतं बृहतीः । मा छन्द इति द्वादश दक्षिणतः । पृथिवी छन्द इति द्वादश पश्चात् । अग्निर्देवतेति द्वादशोत्तरतः ४

05 मूर्धासि राडिति सप्त ...{Loading}...

मूर्धासि राडिति सप्त वालखिल्याः पुरस्तात्प्रतीचीः । यन्त्री राडिति सप्त पश्चात्प्राचीः ५

06 अक्ष्णया द्वेष्यस्य प्रसवाय ...{Loading}...

अक्ष्णया द्वेष्यस्य प्रसवाय त्वोपयामाय त्वा काटाय त्वार्णवाय त्वा धर्णसाय त्वा द्रविणाय त्वा सिन्धवे त्वा समुद्राय त्वा सरस्वते त्वा विश्वव्यचसे त्वा सुभूताय त्वान्तरिक्षाय त्वेति द्वादश भूतेष्टकाः ६

07 ऋषभादिश्चित्यन्तः ...{Loading}...

ऋषभादिश्चित्यन्तः ७

08 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...

श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य चतुर्थीं चितिं चिनोति ८

09 आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां यथाब्राह्मणमुपधायान्तरिक्षमस्यन्तरिक्षाय त्वेति ...{Loading}...

आशुस्त्रिवृदग्नेर्भागोऽसीत्येताभ्यामनुवाकाभ्यां यथाब्राह्मणमुपधायान्तरिक्षमस्यन्तरिक्षाय त्वेति द्वे संयान्यौ ९

10 सहश्च सहस्यश्चेति द्वे ...{Loading}...

सहश्च सहस्यश्चेति द्वे ऋतव्ये समानतयादेवते १०

11 एकयास्तुवतेति सप्तदश सृष्टीः ...{Loading}...

एकयास्तुवतेति सप्तदश सृष्टीः ११

12 इयमेव सा या ...{Loading}...

इयमेव सा या प्रथमा व्यौच्छदिति षोडश व्युष्टीः १२

13 ऋषभादिश्चित्यन्तः ...{Loading}...

ऋषभादिश्चित्यन्तः १३

इति द्वितीया कण्डिका


  1. TS IV.4.11.c-d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. XVI.24.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.3.7.a. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS IV.3.7.a. ↩︎

  5. TS IV.3.7.a ↩︎

  6. Cf. For this Sūtra TS V.3.2.4. ↩︎