०१

01 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...

श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य द्वितीयां चितिं चिनोति १

02 ध्रुवक्षितिरिति पञ्चाश्विनीरुपदधाति ...{Loading}...

ध्रुवक्षितिरिति पञ्चाश्विनीरुपदधाति २

03 सजूरृतुभिरिति पञ्चर्तव्या आश्विनीरनूपधाय ...{Loading}...

सजूरृतुभिरिति पञ्चर्तव्या आश्विनीरनूपधाय ३

04 प्राणम् मे पाहीति ...{Loading}...

प्राणं मे पाहीति पञ्च प्राणभृत ऋतव्या अनूपधाय ४

05 अपस्पिन्वेति पञ्चापस्या अनुपरिहारम् ...{Loading}...

अपस्पिन्वेति पञ्चापस्या अनुपरिहारम् ५

06 वायोर्यान्यसीति द्वे संयान्यौ ...{Loading}...

वायोर्यान्यसीति द्वे संयान्यौ ६

07 शुक्रश्च शुचिश्चेति द्वे ...{Loading}...

शुक्रश्च शुचिश्चेति द्वे ऋतव्ये समानतयादेवते ७

08 त्र्यविर्वय इति पञ्च ...{Loading}...

त्र्यविर्वय इति पञ्च दक्षिणस्यां श्रोण्याम् । पष्ठवाड्वय इति पञ्चोत्तरस्याम् । बस्तो वय इति दक्षिणेऽसें! । वृष्णिर्वय इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्षे । सिंहो वय इत्युत्तरे । एतद्वा विपरीतम् । पुरुषो वय इति मध्ये । विष्टम्भो वय इति चतस्रो वयस्याः पुरस्तात्प्रतीचीः ८

09 यङ् कामयेतापशुः स्यादिति ...{Loading}...

यं कामयेतापशुः स्यादिति वयस्यास्तस्येत्युक्तम् ९

10 ऋषभादिश्चित्यन्तः ...{Loading}...

ऋषभादिश्चित्यन्तः १०

11 श्वो भूते पौर्वाह्णिकीभ्याम् ...{Loading}...

श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य तृतीयां चितिं चिनोति ११

12 इन्द्राग्नी अव्यथमानामिति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य ...{Loading}...

इन्द्राग्नी अव्यथमानामिति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । भुव इति चैतया व्याहृत्या १२

13 चित्तिञ् जुहोमीति स्वयमातृणायां ...{Loading}...

चित्तिं जुहोमीति स्वयमातृणायां हुत्वा व्यनिति १३

14 ज्योतिरसि ज्योतिर्मे यच्छेति ...{Loading}...

ज्योतिरसि ज्योतिर्मे यच्छेति हिरण्येष्टकाम् १४

15 अधिद्यौरिति मण्डलेष्टकाम् ...{Loading}...

अधिद्यौरिति मण्डलेष्टकाम् १५

16 अत्र रेतःसिचो विवयसः ...{Loading}...

अत्र रेतःसिचो विवयसः १६

17 विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य ...{Loading}...

विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् १७

18 अन्तरिक्षस्य यान्यसीति द्वे ...{Loading}...

अन्तरिक्षस्य यान्यसीति द्वे संयान्यौ १८

इति प्रथमा कण्डिका


  1. TS IV.3.4.a-e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.3.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.3.4.h. ↩︎ ↩︎

  4. TS IV.3.6.b. ↩︎

  5. Cp. XVI.23.1. ↩︎