३५

01 यो अप्स्वन्तरग्निर्यो वृत्रे ...{Loading}...

यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यः सोमे अन्तर्यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु । य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । येनेन्द्रस्य रथं सम्बभूवुर्यो वैश्वानर उत वैश्वदेव्यः । धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यं हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्तपोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेत्येताभिः षड्भिश्चितिञ्चितिमुपधायाभिजुहोति १

02 अग्ने भूरीणीत्याग्नेय्या धामच्छदा ...{Loading}...

अग्ने भूरीणीत्याग्नेय्या धामच्छदा चितिञ्चितिमुपधायाभिजुहोति २

03 उपतिष्ठत इत्येके ...{Loading}...

उपतिष्ठत इत्येके ३

04 आग्नेय्या गायत्र्या प्रथमाञ् ...{Loading}...

आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेदित्युक्तम् ४

05 अग्ने देवाँ इहा ...{Loading}...

अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरेत्येता आम्नाता भवन्ति ५

06 षडुपसदः ...{Loading}...

षडुपसदः ६

07 द्व्यहन्द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति ...{Loading}...

द्व्यहन्द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति ७

08 अनूपसदमग्निञ् चिनोति द्व्यहम् ...{Loading}...

अनूपसदमग्निं चिनोति द्व्यहम् ८

09 उत्तमा चितिः ...{Loading}...

उत्तमा चितिः ९

10 त्रीणि चतुस्तनानि व्रतानि ...{Loading}...

त्रीणि चतुस्तनानि व्रतानि । त्रीणि त्रिस्तनानि । त्रीणि द्विस्तनानि । एकमेकस्तनम् १०

11 आपराह्णिकीभ्याम् प्रचर्य श्वेतमश्वम् ...{Loading}...

आपराह्णिकीभ्यां प्रचर्य श्वेतमश्वं परिणीय वसन्ति वसन्ति ११

इति पञ्चत्रिंशी कण्डिका इति षोडशः प्रश्नः


  1. For the verses see KS XL.2-3. MS II.13.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. in general ŚB X.1.3.8. ↩︎ ↩︎