01 यो अप्स्वन्तरग्निर्यो वृत्रे …{Loading}…
यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यः सोमे अन्तर्यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु । य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । येनेन्द्रस्य रथं सम्बभूवुर्यो वैश्वानर उत वैश्वदेव्यः । धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यं हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्तपोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेत्येताभिः षड्भिश्चितिञ्चितिमुपधायाभिजुहोति १
थिते
- Every time after having placed (built) a layer (the Adhvaryu) offers ghee with these six (verses) (beginning with) yo apsvantaragniḥ.1
यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि । य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यः सोमे अन्तर्यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु । य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । पृष्टो दिवीत्येषा । येनेन्द्रस्य रथं सम्बभूवुर्यो वैश्वानर उत वैश्वदेव्यः । धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । यं हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः । यो देवानां देवतमस्तपोजास्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् । उक्षान्नाय वशान्नायेत्येताभिः षड्भिश्चितिञ्चितिमुपधायाभिजुहोति १
02 अग्ने भूरीणीत्याग्नेय्या धामच्छदा …{Loading}…
अग्ने भूरीणीत्याग्नेय्या धामच्छदा चितिञ्चितिमुपधायाभिजुहोति २

03 उपतिष्ठत इत्येके …{Loading}…
उपतिष्ठत इत्येके ३
उपतिष्ठत इत्येके ३
04 आग्नेय्या गायत्र्या प्रथमाञ् …{Loading}…
आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेदित्युक्तम् ४
थिते
- It has been said (in a Brāhmaṇa-text): “He should touch the first layer with a verse addressed to Agni and in Gāyatrī meter."1
आग्नेय्या गायत्र्या प्रथमां चितिमभिमृशेदित्युक्तम् ४
05 अग्ने देवाँ इहा …{Loading}…
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरेत्येता आम्नाता भवन्ति ५
थिते
- These verses beginning with agne devān ihā vaha1 are transmitted (for being used in this respect).
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषः समानमित्त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज । अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भरेत्येता आम्नाता भवन्ति ५
06 षडुपसदः …{Loading}…
षडुपसदः ६
थिते
- There are six Upasads connected with fire-altar-building.
षडुपसदः ६
07 द्व्यहन्द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति …{Loading}…
द्व्यहन्द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति ७
थिते
- For each period of two days one makes a libation with one formula of Upasad.1
द्व्यहन्द्व्यहमेकैकेनोपसन्मन्त्रेण जुहोति ७
08 अनूपसदमग्निञ् चिनोति द्व्यहम् …{Loading}…
अनूपसदमग्निं चिनोति द्व्यहम् ८
थिते
- In accordence with the Upasads one builds the fire altar.1
अनूपसदमग्निं चिनोति द्व्यहम् ८
09 उत्तमा चितिः …{Loading}…
उत्तमा चितिः ९
थिते
- The last layer (is to be built) (during the last) two days.1
उत्तमा चितिः ९
10 त्रीणि चतुस्तनानि व्रतानि …{Loading}…
त्रीणि चतुस्तनानि व्रतानि । त्रीणि त्रिस्तनानि । त्रीणि द्विस्तनानि । एकमेकस्तनम् १०
थिते
- The fast-milk from four teats should be there (for the sacrifier) for three times; for the (next) three times…, three teats…; for the (next) three times…, two teats…; in the same manner1 (for the last three times) one teat….
त्रीणि चतुस्तनानि व्रतानि । त्रीणि त्रिस्तनानि । त्रीणि द्विस्तनानि । एकमेकस्तनम् १०
11 आपराह्णिकीभ्याम् प्रचर्य श्वेतमश्वम् …{Loading}…
आपराह्णिकीभ्यां प्रचर्य श्वेतमश्वं परिणीय वसन्ति वसन्ति ११

इति पञ्चत्रिंशी कण्डिका इति षोडशः प्रश्नः