३४

01 लेखाधिकारो भवति विज्ञायते ...{Loading}...

लेखाधिकारो भवति विज्ञायते च १

02 या दक्षिणावृतस्ता दक्षिणत ...{Loading}...

या दक्षिणावृतस्ता दक्षिणत उपदध्यात् । सव्यावृत उत्तरतः । ऋजुलेखाः पश्चात्पुरस्ताच्च । त्र्यालिखिता मध्ये २

03 चितौ हिरण्यन् निधाय ...{Loading}...

चितौ हिरण्यं निधाय चित्तिमचित्तिमिति चितिकॢप्त्याभिमृशति ३

04 यत्तेऽचितं यदु चितन् ...{Loading}...

यत्तेऽचितं यदु चितं ते अग्ने यदूनं यद्वात्रातिरिक्तम् । विश्वे देवा अङ्गिरसश्चिनवन्नादित्यास्ते चितिमापूरयन्तु । यास्ते अग्ने समिधः । चित्तिमचित्तिम् । वयमग्ने धनवन्तः स्यामालं यज्ञायोत दक्षिणायै । ग्रावा वदेदभि सोमस्यांशुनेन्द्रं शिक्षेमेन्दुना सुतेन । रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत्सूनृतावत् । दधाम यज्ञं सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र । ईशानं त्वा शुश्रुमो वयं धनानां धनपते गोमदग्ने । अश्वावद्भूरि पुष्टं हिरण्यवदन्नमध्येहि मह्यम् । दुहां ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदकी विसर्पतु । प्रजापतिनात्मानमाप्रीणे रिक्तो म आत्मा । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश । तस्मै रुद्राय नमो अस्तु देवा इत्येताभिः स्वयञ्चित्याभिमृशति ४

05 उत्तरतः कृष्णो ऽश्वस्तिष्ठति ...{Loading}...

उत्तरतः कृष्णो ऽश्वस्तिष्ठति । श्यावो वा ५

06 तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो ...{Loading}...

तमालभ्य चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुब्यूहति ६

07 सा चितिर्भवति ...{Loading}...

सा चितिर्भवति ७

इति चतुस्त्रिंशी कण्डिका


  1. These words from the Sūtra 1 appear to be belonging to the second Sūtra. ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. MS III.4.7; cp. ŚB X.2.1.8;10,11. ↩︎ ↩︎ ↩︎ ↩︎