01 ऋतञ् च स्थ ...{Loading}...
ऋतं च स्थ सत्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । चक्षुषे वाम् । मन्द्रा स्थाभिभुवो विश्वेषाम् वो देवानां देवताभिर्गृह्णामि । सपत्नघ्नीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । रेतसे वाम् । अधिपति स्थौजस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि । रक्षोघ्नीश्च स्थारातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । प्रजाभ्यो वाम् । क्षत्रभृत स्थौजस्विनीर्मित्रावरुणयोर्वो ब्रह्मणा देवताभिर्गृह्णामि । वसु च स्थ वामं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । तेजसे वाम् । व्रजक्षित स्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामि । भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । वर्चसे वामिति कुम्भेष्टकानां ग्रहणसादनप्रत्यसनाः १
सर्वाष् टीकाः ...{Loading}...
थिते
- are (the formulae) of taking, placing and throwing (golden pieces) for the Kumbha (Jar)-bricks.
मूलम् ...{Loading}...
ऋतं च स्थ सत्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । चक्षुषे वाम् । मन्द्रा स्थाभिभुवो विश्वेषाम् वो देवानां देवताभिर्गृह्णामि । सपत्नघ्नीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । रेतसे वाम् । अधिपति स्थौजस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि । रक्षोघ्नीश्च स्थारातिघ्नीश्च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । प्रजाभ्यो वाम् । क्षत्रभृत स्थौजस्विनीर्मित्रावरुणयोर्वो ब्रह्मणा देवताभिर्गृह्णामि । वसु च स्थ वामं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । तेजसे वाम् । व्रजक्षित स्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामि । भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामि । वर्चसे वामिति कुम्भेष्टकानां ग्रहणसादनप्रत्यसनाः १
02 हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते ...{Loading}...
हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते २
सर्वाष् टीकाः ...{Loading}...
थिते
- With hiraṇyavarṇāḥ….1 (the Adhvaryu) addresses the (Jar-bricks which are) deposited.
मूलम् ...{Loading}...
हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते २
03 दिवि श्रयस्वेति बार्हस्पत्यन् ...{Loading}...
दिवि श्रयस्वेति बार्हस्पत्यं नैवारं पयसि चरुं मध्ये कुम्भेष्टकानामुपदधाति ३
मूलम् ...{Loading}...
दिवि श्रयस्वेति बार्हस्पत्यं नैवारं पयसि चरुं मध्ये कुम्भेष्टकानामुपदधाति ३
04 समन्या यन्तीत्येषा हिरण्यवर्णः ...{Loading}...
समन्या यन्तीत्येषा । हिरण्यवर्णः स हिरण्यसन्दृगपां पतिः सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मा इत्येताभ्यां च नैवारम् ४
मूलम् ...{Loading}...
समन्या यन्तीत्येषा । हिरण्यवर्णः स हिरण्यसन्दृगपां पतिः सेदु हिरण्यवर्णः । हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मा इत्येताभ्यां च नैवारम् ४
05 त्रिवृत्ते अग्ने शिरस्तन्मे ...{Loading}...
त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः । पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू । सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मा । एकविंशौ ते अग्ने ऊरू तौ मे अग्ने ऊरू । त्रिणवौ ते अग्ने अष्ठीवन्तौ तौ मे अग्ने अष्ठीवन्तौ । त्रयस्त्रिंशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठानमित्येताः शिरसि पक्षयोर्मध्ये पुच्छे वोपदधाति ५

06 त्रिवृत्ते अग्ने शिरस्तेन ...{Loading}...
त्रिवृत्ते अग्ने शिरस्तेन मा पाहीति सन्नमयंस्तान्तामुपतिष्ठते यजमानः ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer stands praying near each (brick after it has been placed by the Adhvaryu) while changing the words trivr̥t te agne śiraḥ with tena mā pāhi….1
मूलम् ...{Loading}...
त्रिवृत्ते अग्ने शिरस्तेन मा पाहीति सन्नमयंस्तान्तामुपतिष्ठते यजमानः ६
07 त्वामग्ने वृषभमित्यृषभमुपधाय लोकम् ...{Loading}...
त्वामग्ने वृषभमित्यृषभमुपधाय लोकं पृण ता अस्य सूददोहस इत्यवशिष्टमपरिमिताभिर्लोकम्पृणाभिः प्रच्छादयति ७
मूलम् ...{Loading}...
त्वामग्ने वृषभमित्यृषभमुपधाय लोकं पृण ता अस्य सूददोहस इत्यवशिष्टमपरिमिताभिर्लोकम्पृणाभिः प्रच्छादयति ७
08 सर्वान्वर्णानिष्टकानाङ् कुर्यादिति ...{Loading}...
सर्वान्वर्णानिष्टकानां कुर्यादिति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The expression: “One should bring all the forms of the bricks”1
मूलम् ...{Loading}...
सर्वान्वर्णानिष्टकानां कुर्यादिति ८
इति त्रयस्त्रिंशी कण्डिका