२९

01 ये यज्ञं सम्मगृभ्णन्देवा ...{Loading}...

ये यज्ञं सम्मगृभ्णन्देवा देवेभ्यस्परि । तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना । ये ज्योतींषि सन्दधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृतस्य लोके । ये पशवो मेध्यासो यज्ञस्य योनिमभिसम्बभूवुः । तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके । यः पन्था विततो देवयानश्छन्दोभिर्विगृहीत एति । तेनातिष्ठद्दिवमन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् । यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः । तेनैतु यजमानः स्वस्त्या दिवोऽधि पृष्ठमस्थादिति पञ्च हिरण्येष्टकाः प्रतिदिशम् । एकां मध्ये १

02 आयवे स्वाहायोष्कृते स्वाहायोष्पत्वने ...{Loading}...

आयवे स्वाहायोष्कृते स्वाहायोष्पत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्चोपधायाद्भ्यः सम्भूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्र इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानासि । धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद । सनिरसि सन्यै त्वा सनेयम् । वित्तिरसि वित्त्यै त्वा विदेयम् । शक्तिरसि शक्त्यै त्वा शकेयम् । भूतिरसि भूत्यै त्वा भूयासम् । कर्मासि कर्मणे त्वा क्रियासम् २

इत्येकोनत्रिंशी कण्डिका


  1. KS XXXIX.3. ↩︎ ↩︎

  2. Perhaps cf. TS V.5.1.1-2.; (cp. Āpśs XVII.7.2). ↩︎

  3. KS XXXIX.20; TĀ III. 13.1. The sentence in this Sūtra is in complete. See the next section. ↩︎