२८

01 मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणान्तेन ...{Loading}...

मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणान्तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट् छन्दस्तद्वाग्वरुणो देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप् छन्दस्तद्वायुर्मित्रो देवता । उष्णिहा छन्दस्तच्चक्षुः पूषा देवता । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्येताभिर्द्वादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति १

02 पुरुषशिरोऽस्याः शिरो भवति ...{Loading}...

पुरुषशिरोऽस्याः शिरो भवति २

03 सहस्रशीर्षा पुरुष इत्युपहिताम् ...{Loading}...

सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते ३

04 अपस्या उपदधाति अपान् ...{Loading}...

अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ४

इत्यष्टाविंशी कण्डिका


  1. KS XXXIX.4; cp. TS IV.3.7.a. and V.3.2.4. ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.3.1.a. ↩︎

  3. TS IV.3.1.b. ↩︎

  4. TS IV.3.1.c. ↩︎

  5. TS IV.3.1.d. ↩︎