01 मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणान्तेन …{Loading}…
मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणान्तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट् छन्दस्तद्वाग्वरुणो देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप् छन्दस्तद्वायुर्मित्रो देवता । उष्णिहा छन्दस्तच्चक्षुः पूषा देवता । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्येताभिर्द्वादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति १
थिते
- With twelve formulae beginning with ma chandaḥ(the Adhvaryu) prepares, in the east, a human figure out of bricks from east to west using each formula thrice and adding to each formula tayā devatayā….1
मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणान्तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट् छन्दस्तद्वाग्वरुणो देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप् छन्दस्तद्वायुर्मित्रो देवता । उष्णिहा छन्दस्तच्चक्षुः पूषा देवता । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्येताभिर्द्वादशभिस्त्रिरभ्यासं पुरस्तात्प्रतीचीं पुरुषाकृतिं चिनोति १
02 पुरुषशिरोऽस्याः शिरो भवति …{Loading}…
पुरुषशिरोऽस्याः शिरो भवति २
थिते
- The head of the (golden) man should become the head of this (human figure).1
पुरुषशिरोऽस्याः शिरो भवति २
03 सहस्रशीर्षा पुरुष इत्युपहिताम् …{Loading}…
सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते ३
थिते
- The sacrificer stands near the laid (human figure) with the Puruṣa Nārāyaṇa (section of formulae) beginning with sahasraśīrṣā puruṣaḥ.1
सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते ३
04 अपस्या उपदधाति अपान् …{Loading}…
अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ४
थिते
- (The Adhvaryu) places the Apasyā (water-bricks)1. (In the east) he places the five turned towards the west with apāṁ tveman sādayāmi…2; in the south the five turned towards the north with arṇave sadane sīda…3: in the west the five turned towards the east with apāṁ tvā sadane sādayāmi…4; in the north the five turned towards the south with gāyatrī chandaḥ….5
अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ४
इत्यष्टाविंशी कण्डिका