२७

01 द्रप्सश्चस्कन्देत्यास्ये अभूदिदं विश्वस्य ...{Loading}...

द्रप्सश्चस्कन्देत्यास्ये । अभूदिदं विश्वस्य भुवनस्येति वा १

02 ऋचे त्वेति दक्षिणेऽक्षिकटे ...{Loading}...

ऋचे त्वेति दक्षिणेऽक्षिकटे । रुचे त्वेति सव्ये २

03 द्युते त्वेति कर्णयोः ...{Loading}...

द्युते त्वेति कर्णयोः ३

04 भासे त्वेति दक्षिणस्यान् ...{Loading}...

भासे त्वेति दक्षिणस्यां नासिकायाम् । ज्योतिषे त्वेत्युत्तरस्याम् ४

05 समित्स्रवन्तीति शृतातङ्क्येन दध्ना ...{Loading}...

समित्स्रवन्तीति शृतातङ्क्येन दध्ना मधुमिश्रेण पुरुषशिरः पूरयति ५

06 सर्वेषाम् पशुशिरसां हिरण्यशस्कप्रत्यसनम् ...{Loading}...

सर्वेषां पशुशिरसां हिरण्यशस्कप्रत्यसनं पूरणं च वाजसनेयिनः समामनन्ति ६

07 तस्मिन्त्सुपर्णो मधुकृत्कुलायीति पुरुषशिर ...{Loading}...

तस्मिन्त्सुपर्णो मधुकृत्कुलायीति पुरुषशिर आदायादित्यं गर्भमित्युखायां पुरस्ताच्चुबुकं प्राचीनमुत्तानं प्राङ्मुख उपधाय चित्रं देवानामित्यर्धर्चाभ्यामक्षिकटयोर्हुत्वा पशुशीर्षाण्युपदधाति ७

08 यङ् कामयेतापशुः स्यादिति ...{Loading}...

यं कामयेतापशुः स्यादिति विषूचीनानि तस्येत्युक्तम् ८

09 वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्य ...{Loading}...

वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्य ९

10 अजस्रमिन्दुमिति पश्चात्प्राचीन मृषभस्य ...{Loading}...

अजस्रमिन्दुमिति पश्चात्प्राचीन मृषभस्य १०

11 वरूत्रिन् त्वष्टुरिति दक्षिणत ...{Loading}...

वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेः ११

12 यो अग्निरग्नेरित्युत्तरतो दक्षिणा ...{Loading}...

यो अग्निरग्नेरित्युत्तरतो दक्षिणा वस्तस्य १२

13 तान्यव्यवायेनोत्सर्गैरुपतिष्ठते ...{Loading}...

तान्यव्यवायेनोत्सर्गैरुपतिष्ठते १३

14 इमम् मा हिंसीर्द्विपादमिति ...{Loading}...

इमं मा हिंसीर्द्विपादमिति पुरुषस्य १४

15 इमम् मा हिंसीरेकशफमित्यश्वस्य ...{Loading}...

इमं मा हिंसीरेकशफमित्यश्वस्य १५

16 इमं समुद्रमित्यृषभस्य ...{Loading}...

इमं समुद्रमित्यृषभस्य १६

17 इमामूर्णायुमिति वृष्णेः ...{Loading}...

इमामूर्णायुमिति वृष्णेः १७

18 अजा ह्यग्नेरिति बस्तस्य ...{Loading}...

अजा ह्यग्नेरिति बस्तस्य १८

19 यदि वायव्यस्य स्यान्मुख्यस्य ...{Loading}...

यदि वायव्यस्य स्यान्मुख्यस्य स्थाने सर्वेषामुपधानैरुपधाय सर्वेषामुत्सर्गैरुपतिष्ठेत १९

20 अपि वा तस्यतस्य ...{Loading}...

अपि वा तस्यतस्य स्थान उपधाय तस्यतस्योत्सर्गेणोपतिष्ठते २०

21 यङ् कामयेत कनीयोऽस्यान्नं ...{Loading}...

यं कामयेत कनीयोऽस्यान्नं स्यादिति सन्तरां तस्येत्युक्तम् २१

22 नमो अस्तु सर्पेभ्य ...{Loading}...

नमो अस्तु सर्पेभ्य इति दक्षिणेऽसें! सर्पशिर उपदध्याद्विषूचीनं पशुशीर्षैः २२

23 अपि वा यजुरेव ...{Loading}...

अपि वा यजुरेव वदेन्नोपदध्यात् २३

इति सप्तविंशी कण्डिका


  1. TS IV.2.9.s. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.2.9.t. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.4.6.k. ↩︎ ↩︎ ↩︎ ↩︎

  4. TS IV.4.6.k. ↩︎ ↩︎ ↩︎ ↩︎

  5. TS IV.4.6.k. ↩︎ ↩︎ ↩︎

  6. For this Sūtra cf. in general TS V.2.9.2f. ↩︎ ↩︎