२६

01 यच्चिद्धि त्वङ् गृहेगृह ...{Loading}...

यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमं वद जयतामिव दुन्दुभिरिति प्रादेशमात्रं चतुःस्रक्त्यौदुम्बरमुलूखलमुत्तरेऽसें! प्रयुनक्ति १

02 अपरिमितम् मुसलम् ...{Loading}...

अपरिमितं मुसलम् २

03 उत स्म ते ...{Loading}...

उत स्म ते वनस्पते वातो वि वात्यग्रमित् । अथो इन्द्राय पातवे सुनु सोममुलूखलेति सर्वौषधस्य पूरयित्वावहत्येदं विष्णुर्विचक्रम इति मध्येऽग्नेरुपदधाति ३

04 तद्विष्णोः परमम् पदमिति ...{Loading}...

तद्विष्णोः परमं पदमिति मुसलम् ४

05 दिवो वा विष्णविति ...{Loading}...

दिवो वा विष्णविति शूर्पम् ५

06 स्यूता देवेभिरमृतेनागा उखां ...{Loading}...

स्यूता देवेभिरमृतेनागा उखां स्वसारमधि वेदिमस्थात् । सत्यं पूर्वैरृषिभिश्चाकुपानोऽग्निः प्रविद्वानिह तत्करोत्विति घृतेनोखां पूरयति । दध्ना मधुना सिकताभिर्वा सर्वैर्वा ६

07 संसृज्य न रिक्तामवेक्षेत ...{Loading}...

संसृज्य न रिक्तामवेक्षेत । शुग्विद्धा भवति ७

08 अथास्याम् पय आनयति ...{Loading}...

अथास्यां पय आनयति ८

09 सन्न्युप्य पूरणमेके समामनन्ति ...{Loading}...

सन्न्युप्य पूरणमेके समामनन्ति ९

10 यङ् कामयेत क्षोधुकः ...{Loading}...

यं कामयेत क्षोधुकः स्यादित्यूनां तस्येत्युक्तम् १०

11 ध्रुवासि पृथिवीति मध्येऽग्नेरुपदधाति ...{Loading}...

ध्रुवासि पृथिवीति मध्येऽग्नेरुपदधाति ११

12 पृथिवि पृथिव्यां सीद ...{Loading}...

पृथिवि पृथिव्यां सीद माता मातरि माता स्योना स्योनायामुखां स्वसारमधि वेदिमस्थात् । सत्यं पूर्वैरृषिभिश्चाकुपानोऽग्निः प्रविद्वानिह तद्दधात्विति वोलूखलमुपदधातीति वाजसनेयकम् १२

13 अग्ने युक्ष्वा हि ...{Loading}...

अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमानिति द्वाभ्यामुखायां हुत्वा पुरुषशिरसि हिरण्यशल्कान्प्रत्यस्यति १३

इति षड्विंशी कण्डिका


  1. R̥V I.28.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB VII.3.1.15. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.2.8.7. ↩︎ ↩︎ ↩︎ ↩︎