२४

01 काण्डात्काण्डात्परोहन्तीति द्वाभ्यान् दूर्वेष्टकां ...{Loading}...

काण्डात्काण्डात्परोहन्तीति द्वाभ्यां दूर्वेष्टकां सलोष्टं हरितं दूर्वास्तम्बमप्रच्छिन्नाग्रं यथास्योपहितस्य स्वयमातृणायामग्रं प्राप्नुयादिति १

02 प्रबाहुगिष्टकायां हिरण्यशकलावध्यूह्य यास्ते ...{Loading}...

प्रबाहुगिष्टकायां हिरण्यशकलावध्यूह्य यास्ते अग्ने सूर्ये रुच इति द्वाभ्यां वामभृतम् २

03 विराड् ज्योतिरिति तिस्रो ...{Loading}...

विराड् ज्योतिरिति तिस्रो रेतःसिचः ३

04 तासान् द्वे प्रथमायाञ् ...{Loading}...

तासां द्वे प्रथमायां चित्यां यून उपदध्यात् । सर्वा मध्यमायां विवयसः । एकां प्रथमायामेकामुत्तमायां स्थविरस्य ४

05 अन्यतरामुपदध्याद्द्वेष्यस्य ...{Loading}...

अन्यतरामुपदध्याद्द्वेष्यस्य ५

06 यजुषेमाञ् चामूञ् चोपदधाति ...{Loading}...

यजुषेमां चामूं चोपदधाति । मनसा मध्यमाम् ६

07 बृहस्पतिस्त्वा सादयतु पृथिव्याः ...{Loading}...

बृहस्पतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीमिति विश्वज्योतिषम् ७

08 अग्नेर्यान्यसीति द्वे संयान्यौ ...{Loading}...

अग्नेर्यान्यसीति द्वे संयान्यौ ८

09 मधुश्च माधवश्चेति द्वे ...{Loading}...

मधुश्च माधवश्चेति द्वे ऋतव्ये समानतयादेवते ९

10 सर्वास्वृतव्यास्ववकामनूपदधाति ...{Loading}...

सर्वास्वृतव्यास्ववकामनूपदधाति १०

11 अवकासु सादयतीत्येके ...{Loading}...

अवकासु सादयतीत्येके ११

12 अषाढासीति द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम् ...{Loading}...

अषाढासीति द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम् १२

13 यङ् कामयेत वसीयान्त्स्यादित्युत्तरलक्ष्माणन् ...{Loading}...

यं कामयेत वसीयान्त्स्यादित्युत्तरलक्ष्माणं तस्येत्युक्तम् १३

14 घर्मेष्टकामुपधाय कुलायिनीम् ...{Loading}...

घर्मेष्टकामुपधाय कुलायिनीम् १४

15 तयोः प्रवर्ग्ये मन्त्रौ ...{Loading}...

तयोः प्रवर्ग्ये मन्त्रौ १५

इति चतुर्विंशी कण्डिका


  1. TS IV.29.c-d. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.2.8.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB VII.4.2.13. ↩︎ ↩︎ ↩︎