२३

01 ध्रुवासि धरुणास्तृतेति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य ...{Loading}...

ध्रुवासि धरुणास्तृतेति स्वयमातृणामभिमृश्याश्वेनोपघ्राप्य प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । भूरिति चैतया व्याहृत्या १

02 चित्तिञ् जुहोमीति स्वयमातृणायां ...{Loading}...

चित्तिं जुहोमीति स्वयमातृणायां हुत्वानुप्राणिति २

03 अविद्वान्ब्राह्मणो वरन् ददात्येकन् ...{Loading}...

अविद्वान्ब्राह्मणो वरं ददात्येकं द्वौ त्रीन्वा ३

04 आसीनः प्रथमां स्वयमातृणामुपदधाति ...{Loading}...

आसीनः प्रथमां स्वयमातृणामुपदधाति । ऊर्ध्वज्ञुर्द्वितीयाम् । तिष्ठंस्तृतीयाम् ४

05 स्वयमातृणायां साम गायेति ...{Loading}...

स्वयमातृणायां साम गायेति सम्प्रेष्यति ५

06 एवन् द्वितीयान् तृतीयाञ् ...{Loading}...

एवं द्वितीयां तृतीयां चोपधाय सम्प्रेष्यति ६

07 यदि मन्येत यजमानः ...{Loading}...

यदि मन्येत यजमानः पूर्वो मातिक्रान्तो भ्रातृव्य इति प्रथोऽसीत्युपहितां प्राचीमुदूहेत् । यदि वापरः पृथिव्यसीति प्रतीचीम् । सदृङ्यदि भूरसि भुवनमसीति विचालयेत् ७

08 तेजोऽसि तेजो मे ...{Loading}...

तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकाम् ८

09 पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम् ...{Loading}...

पृथिव्युदपुरमन्नेनेति मण्डलेष्टकाम् ९

10 भूरसि भुवनस्य रेतः ...{Loading}...

भूरसि भुवनस्य रेतः । इष्टका स्वर्गो लोकः । वाचा त्वान्वारोहामि । अग्निर्ज्योतिर्ज्योतिरग्निः । तया देवतयाङ्गिरस्वद्ध्रुवा सीद । सूरसि सुवनस्य रेतः । इष्टका स्वर्गो लोकः । मनसा त्वान्वारोहामि । सूर्यो ज्योतिर्ज्योतिः सूर्यः । तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्यन्वारोहे द्वे १०

इति त्रयोविंशी कण्डिका


  1. TS IV.2.9.a This stone is considered to be a brick. It is metaphorically described as the earth; in the 3rd layer it is de scribed as intermediary space (XVII.1.12) and in the 5th layer as the heaven (XVII.5.8). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.2.8.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS IV.2.9.b. ↩︎

  4. Cf. TS V.2.8.1-2. ↩︎

  5. CFf. TS V.2.8.1-2. ↩︎

  6. Cf. TS V.5.5.3; Cp. XVII.1.12; 3.8. ↩︎