२२

01 तत्त्वा यामि ब्रह्मणा ...{Loading}...

तत्त्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १

02 अपाम् पृष्ठमसीत्यश्वस्य पदे ...{Loading}...

अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधायापां निधिं गायेति सम्प्रेष्यति २

03 ब्रह्म जज्ञानमिति पुष्करपर्ण ...{Loading}...

ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनातृणं प्राङ्मुख उपधाय पुरुषसाम गायेति सम्प्रेष्यति ३

04 द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो ...{Loading}...

द्रप्सश्चस्कन्देति पुरुषमभिमृश्य नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य कृणुष्व पाज इति पञ्चभिरुत्तरवेदिवत्पुरुषं व्याघार्य स्रुचावुपदधातीत्युक्तम् ४

05 अपि वाग्नेस्त्वा तेजसा ...{Loading}...

अपि वाग्नेस्त्वा तेजसा सादयामीत्याज्यस्य पूर्णां कार्ष्मर्यमयीं दक्षिणेन पुरुषम् । इन्द्रस्य त्वौजसा सादयामीति दध्नः पूर्णामौदुम्बरीमुत्तरेण पुरुषम् ५

06 अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते भुवो ...{Loading}...

अग्निर्मूर्धेति कार्ष्मर्यमयीमुपतिष्ठते । भुवो यज्ञस्येत्यौदुम्बरीम् । एतद्वा विपरीतम् ६

07 मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके ...{Loading}...

मूर्धन्वतीभ्यामुपदधाति यजुर्भ्यामुपतिष्ठत इत्येके ७

08 अत्र पुरुषवद्रुक्मं व्याघार्य ...{Loading}...

अत्र पुरुषवद्रुक्मं व्याघार्य ८

इति द्वाविंशी कण्डिका


  1. Cf. TS V.7.6.4f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS V.7.6.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS III.2.5. ↩︎ ↩︎ ↩︎ ↩︎

  4. Cp. TS V.2.6.5. ↩︎ ↩︎ ↩︎

  5. TS IV.2.8a. ↩︎ ↩︎ ↩︎

  6. Cf. MS III.2.5. ↩︎ ↩︎ ↩︎

  7. TS IV.2.8.b. ↩︎ ↩︎ ↩︎

  8. Cf. TS V.2.7.2. ↩︎ ↩︎