01 आतिथ्याया ध्रौवादित्येतदादि कर्म ...{Loading}...
आतिथ्याया ध्रौवादित्येतदादि कर्म प्रतिपद्यते १
सर्वाष् टीकाः ...{Loading}...
थिते
- (Then the Adhvaryu) does the work beginning with (taking of the ghee remaining) in Dhruva (at the time) of the Guest-offering (Ātithyā-iṣṭi)1.
मूलम् ...{Loading}...
आतिथ्याया ध्रौवादित्येतदादि कर्म प्रतिपद्यते १
02 पौर्वाह्णिकीभ्याम् प्रचर्याग्रेण प्राग्वंशं ...{Loading}...
पौर्वाह्णिकीभ्यां प्रचर्याग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति । अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having performed (the Pravargya and Upasad) belonging to the morning he places the bricks of the first layer on the red hide of a bull with its neck to the east and hair upwards in front of the Prāgvaṁśa-hall1; or (he does not place all the necessary bricks but only) the three naturally perforated (stone bricks) and the three Viśvajyotis (All Light bricks).
मूलम् ...{Loading}...
पौर्वाह्णिकीभ्यां प्रचर्याग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति । अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः २
03 ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य ...{Loading}...
ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति सम्प्रेष्यति । प्रणीयमानेभ्युओऽनुब्रूहीति वा ३
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति सम्प्रेष्यति । प्रणीयमानेभ्युओऽनुब्रूहीति वा ३
04 प्रथमायान् त्रिरनूक्तायां हिरण्यगर्भः ...{Loading}...
प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्र इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- After the first verse is recited thrice by the Hotr̥1, with hiraṇyagarbhaḥ samavartatāgre…. they go to the east keeping horse in front of them while the Hotr̥ continues his recitation.
मूलम् ...{Loading}...
प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्र इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ४
05 श्वेतमश्वम् पुरस्तान्नयन्ति ...{Loading}...
श्वेतमश्वं पुरस्तान्नयन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- They lead a white horse in front1.
मूलम् ...{Loading}...
श्वेतमश्वं पुरस्तान्नयन्ति ५
06 प्रजापतिस्त्वा सादयतु तया ...{Loading}...
प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयञ्चित्याभिमृशति ६
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयञ्चित्याभिमृशति ६
07 इष्टकाभिरग्निञ् चिनोत्यध्वर्युर्यजमानो वा ...{Loading}...
इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Either the Adhvaryu or the sacrificer builds the fire altar building by means of the bricks.
मूलम् ...{Loading}...
इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वा ७
08 स्वयञ् चिन्वन्नात्मन्नग्निङ् गृह्णीते ...{Loading}...
स्वयं चिन्वन्नात्मन्नग्निं गृह्णीते न स्वयञ्चित्याभिमृशति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer himself building mystically takes fire in himself but does not touch the Uttaravedi with the verse called Svayaṁciti.
मूलम् ...{Loading}...
स्वयं चिन्वन्नात्मन्नग्निं गृह्णीते न स्वयञ्चित्याभिमृशति ८
09 प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु ...{Loading}...
प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- When it is said, he places the bricks towards the east, he places the bricks towards the west it refer to the bricks in groups.
मूलम् ...{Loading}...
प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः ९
10 प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः ...{Loading}...
प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- When it is said he palces the bricks towards the east, he places the bricks towards the west, it refers to the direction towards which the builder is facing at the time of the building.
मूलम् ...{Loading}...
प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः १०
11 दक्षिणतः श्वेतो ऽश्वस्तिष्ठति ...{Loading}...
दक्षिणतः श्वेतो ऽश्वस्तिष्ठति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- A white horse stands to the south of the fire-altar building.
मूलम् ...{Loading}...
दक्षिणतः श्वेतो ऽश्वस्तिष्ठति ११
12 तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण ...{Loading}...
तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण पुच्छाप्ययमन्तर्विध आक्रमणं प्रतीष्टकामुपदध्यात् १२
मूलम् ...{Loading}...
तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण पुच्छाप्ययमन्तर्विध आक्रमणं प्रतीष्टकामुपदध्यात् १२
13 उत्तरतः पश्चाद्वोपचारोऽग्निः ...{Loading}...
उत्तरतः पश्चाद्वोपचारोऽग्निः १३
सर्वाष् टीकाः ...{Loading}...
थिते
- The fire-altar place should be approached either from the north or from the west.1
मूलम् ...{Loading}...
उत्तरतः पश्चाद्वोपचारोऽग्निः १३
14 वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च ...{Loading}...
वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च जपति । सकृद्वान्ततः १४
मूलम् ...{Loading}...
वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च जपति । सकृद्वान्ततः १४
इत्येकविंशी कण्डिका