२१

01 आतिथ्याया ध्रौवादित्येतदादि कर्म …{Loading}…

आतिथ्याया ध्रौवादित्येतदादि कर्म प्रतिपद्यते १

02 पौर्वाह्णिकीभ्याम् प्रचर्याग्रेण प्राग्वंशं …{Loading}…

पौर्वाह्णिकीभ्यां प्रचर्याग्रेण प्राग्वंशं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि प्रथमस्याश्चितेरिष्टकाः संसादयति । अपि वा तिस्रः स्वयमातृणास्तिस्रश्च विश्वज्योतिषः २

03 ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य …{Loading}…

ता दर्भाग्रमुष्टिनाज्येन व्यवोक्ष्य समुद्यम्य चित्यग्निभ्यः प्रणीयमानेभ्योऽनुब्रूहीति सम्प्रेष्यति । प्रणीयमानेभ्युओऽनुब्रूहीति वा ३

04 प्रथमायान् त्रिरनूक्तायां हिरण्यगर्भः …{Loading}…

प्रथमायां त्रिरनूक्तायां हिरण्यगर्भः समवर्तताग्र इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ४

05 श्वेतमश्वम् पुरस्तान्नयन्ति …{Loading}…

श्वेतमश्वं पुरस्तान्नयन्ति ५

06 प्रजापतिस्त्वा सादयतु तया …{Loading}…

प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयञ्चित्याभिमृशति ६

07 इष्टकाभिरग्निञ् चिनोत्यध्वर्युर्यजमानो वा …{Loading}…

इष्टकाभिरग्निं चिनोत्यध्वर्युर्यजमानो वा ७

08 स्वयञ् चिन्वन्नात्मन्नग्निङ् गृह्णीते …{Loading}…

स्वयं चिन्वन्नात्मन्नग्निं गृह्णीते न स्वयञ्चित्याभिमृशति ८

09 प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु …{Loading}…

प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः ९

10 प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः …{Loading}…

प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः १०

11 दक्षिणतः श्वेतो ऽश्वस्तिष्ठति …{Loading}…

दक्षिणतः श्वेतो ऽश्वस्तिष्ठति ११

12 तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण …{Loading}…

तमालभ्येन्द्रं विश्वा अवीवृधन्नित्युत्तरेण पुच्छाप्ययमन्तर्विध आक्रमणं प्रतीष्टकामुपदध्यात् १२

13 उत्तरतः पश्चाद्वोपचारोऽग्निः …{Loading}…

उत्तरतः पश्चाद्वोपचारोऽग्निः १३

14 वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च …{Loading}…

वाङ्म आसन्निति सर्वत्रारोहन्प्रत्यवरोहंश्च जपति । सकृद्वान्ततः १४

इत्येकविंशी कण्डिका


  1. For this see X.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf ŚB VII.3.2.5. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS V.7.8.a. ↩︎