२०

01 यामोषधीनान् नाधिगच्छेत्तस्याः स्थाने ...{Loading}...

यामोषधीनां नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्वपेत् १

02 उप्ता मे ऽसीति ...{Loading}...

उप्ता मे ऽसीति वा मनसा ध्यायेत् २

03 अधिगतायां यः प्रथम ...{Loading}...

अधिगतायां यः प्रथम इध्म आगच्छेत्तस्मिन्नेनामुपसं नह्येत् ३

04 ये वनस्पतीनाम् फलग्रहयस्तानिध्म ...{Loading}...

ये वनस्पतीनां फलग्रहयस्तानिध्म उपसन्नह्य प्रोक्षेत् ४

05 मा नो हिंसीज्जनिता ...{Loading}...

मा नो हिंसीज्जनिता यः पृथिव्या इति चतसृभिर्दिग्भ्यो लोष्टान्समस्यति ये ऽन्तर्विधाद्वहिर्विधमापन्ना भवन्ति ५

06 यन् द्विष्याद्यत्र स ...{Loading}...

यं द्विष्याद्यत्र स स्यात्तस्यै दिशो जघन्यं लोष्टमाहरेदिषमूर्जमहमित आदद इति ६

07 घृतेन सीतेति सीतान्तरालान्यभिमृशति ...{Loading}...

घृतेन सीतेति सीतान्तरालान्यभिमृशति । उत्तरवेदिं वा ८

08 उत्तरवेदिमुपवपति यावानग्निः ...{Loading}...

उत्तरवेदिमुपवपति यावानग्निः ८

09 व्याघारणान्ताङ् कृत्वाग्ने तव ...{Loading}...

व्याघारणान्तां कृत्वाग्ने तव श्रवो वय इति षद्भिः सिकता न्युप्य चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिराहवनीयचितेरायतनं परिश्रयति यथा गार्हपत्यस्यैवम् ९

10 त्रिसप्ताभिः पशुकामस्य त्रिणवाभिर्भ्रातृव्यवतः ...{Loading}...

त्रिसप्ताभिः पशुकामस्य । त्रिणवाभिर्भ्रातृव्यवतः । दशभिर्दशभिरन्नाद्यकामस्य । अपरिमिताभिरपरिमितकामस्य १०

11 यङ् कामयेतापशुः स्यादित्यपरिमित्य ...{Loading}...

यं कामयेतापशुः स्यादित्यपरिमित्य तस्येत्युक्तम् ११

12 आप्यायस्व समेतु त ...{Loading}...

आप्यायस्व समेतु त इति सिकता व्यूहति १२

13 उत्तरया त्रिष्टुभा राजन्यस्य ...{Loading}...

उत्तरया त्रिष्टुभा राजन्यस्य १३

14 असावि सोमो अरुषो ...{Loading}...

असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदमिति जगत्या वैश्यस्य १४

इति विंशी कण्डिका


  1. Cf. MS III.2.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. TS V.2.5.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS V.2.6.1. ↩︎

  4. Cf. TS V.2.6.2. ↩︎

  5. TS IV.2.7.1. ↩︎