१९

01 गायत्रीं लोमभिः प्रविशामि ...{Loading}...

गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते १

02 लाङ्गलम् पवीरवमिति द्वाभ्याङ् ...{Loading}...

लाङ्गलं पवीरवमिति द्वाभ्यां कृषति २

03 कीनाशा बलीवर्दानजन्ति ...{Loading}...

कीनाशा बलीवर्दानजन्ति ३

04 पुच्छाच्छिरोऽधि क्वषति ...{Loading}...

पुच्छाच्छिरोऽधि क्वषति ४

05 कामङ् कामदुघे धुक्ष्वेति ...{Loading}...

कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति ५

06 मध्ये सम्भिन्ना भवति ...{Loading}...

मध्ये सम्भिन्ना भवति ६

07 दक्षिणात्पक्षादुत्तरम् उत्तरस्माद्दक्षिणम् दक्षिणायै ...{Loading}...

दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम् ७

08 विमुच्यध्वमघ्निया देवयाना अतारिष्म ...{Loading}...

विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽसं! उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति ८

09 चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः ...{Loading}...

चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति ९

10 पञ्चदशोदपात्रान्निनयति द्वादश कृष्टे ...{Loading}...

पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे १०

11 या जाता ओषधय ...{Loading}...

या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति ११

12 अनुसीतमित्युक्तम् ...{Loading}...

अनुसीतमित्युक्तम् १२

13 तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो ...{Loading}...

तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः १३

14 गार्मुतसप्तमाः कुलत्थसप्तमा वा ...{Loading}...

गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे १४

इत्येकोनविंशी कण्डिका


  1. Cp. KS XXXVIII.14. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.2.5.4-5. ↩︎ ↩︎