01 गायत्रीं लोमभिः प्रविशामि …{Loading}…
गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते १
थिते
- (and with) gāyatrīm lomabhiḥ…1 they (the Adhvaryu and other ploughers) step upon the measured out (site of the fire-altar-building).
गायत्रीं लोमभिः प्रविशामि । त्रिष्टुभं त्वचा प्रविशामि । जगतीं मांसेन प्रविशामि । अनुष्टुभमस्थ्ना प्रविशामि । पङ्क्तिं मज्ज्ञा प्रविशामि । ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सूराः । तन्नस्त्रायतां तन्नो विश्वतो महदायुष्मन्तो जरामुप्रगच्छेम देवा इति विमितमग्निमाक्रमन्ते १
02 लाङ्गलम् पवीरवमिति द्वाभ्याङ् …{Loading}…
लाङ्गलं पवीरवमिति द्वाभ्यां कृषति २
थिते
- With the two verses beginning with lāṅgalaṁ pavīravam…1 the Adhvaryu ploaughs.
लाङ्गलं पवीरवमिति द्वाभ्यां कृषति २
03 कीनाशा बलीवर्दानजन्ति …{Loading}…
कीनाशा बलीवर्दानजन्ति ३
थिते
- The ploughers drive the oxen.
कीनाशा बलीवर्दानजन्ति ३
04 पुच्छाच्छिरोऽधि क्वषति …{Loading}…
पुच्छाच्छिरोऽधि क्वषति ४
थिते
- (The Adhvaryu) ploughes from the tail upto the head.
पुच्छाच्छिरोऽधि क्वषति ४
05 कामङ् कामदुघे धुक्ष्वेति …{Loading}…
कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति ५
कामं कामदुघे धुक्ष्वेति प्रदक्षिणमावर्तयंस्तिस्रस्तिस्रः सीताः संहिताः कृषति ५
06 मध्ये सम्भिन्ना भवति …{Loading}…
मध्ये सम्भिन्ना भवति ६
थिते
- (The furrows) cross each other in the middle.
मध्ये सम्भिन्ना भवति ६
07 दक्षिणात्पक्षादुत्तरम् उत्तरस्माद्दक्षिणम् दक्षिणायै …{Loading}…
दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम् ७
थिते
- (He then draws three furrows) from the right (wing) to the left wing; (three) from the left wing to the right wing; (three) should be where there are from the right hip (south-western corner) to the left shoulder (north-eastern corner), from the left hip (north-western corner) to the right shoulder (south-eastern corner). Or in the reverse manner.
दक्षिणात्पक्षादुत्तरम् । उत्तरस्माद्दक्षिणम् । दक्षिणायै श्रोणेरुत्तरमंसम् । उत्तरायै दक्षिणम् । एतद्वा विपरीतम् ७
08 विमुच्यध्वमघ्निया देवयाना अतारिष्म …{Loading}…
विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽसं! उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति ८
विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पारमस्य । ज्योतिरापाम लुवरगन्मेति दक्षिणेऽसं! उत्तरे वा बलीवर्दान्विमुच्य तानुदीचः प्राचो वोत्सृज्याध्वर्यवे ददाति ८
09 चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः …{Loading}…
चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति ९
थिते
- The Vājasaneyins think that (the place to be ploughed should be a quadrangle), where the furrows do not cross each other and where there are sixteen furrows1.
चतुरश्रमसम्भिन्नं षोडशसीतं वाजसनेयिनः समामनन्ति ९
10 पञ्चदशोदपात्रान्निनयति द्वादश कृष्टे …{Loading}…
पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे १०
थिते
- (The Adhvaryu) pours fifteen pots full of water:- twelve on the ploughed part and three on the unploughed part.1
पञ्चदशोदपात्रान्निनयति । द्वादश कृष्टे त्रीनकृष्टे १०
11 या जाता ओषधय …{Loading}…
या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति ११
थिते
- With fourteen verses yā jātā oṣadhayaḥ….1 he sows herbs.
या जाता ओषधय इति चतुर्दशभिरोषधीर्वपति ११
12 अनुसीतमित्युक्तम् …{Loading}…
अनुसीतमित्युक्तम् १२
थिते
- It has been said (in a Brāhmaṇa-text) : “(He sows) on the furrows"1.
अनुसीतमित्युक्तम् १२
13 तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो …{Loading}…
तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः १३
थिते
- (The herbs are as follows :) sesames, beans, rice, barley, Priyaṅgu and Aṇus, wheat, Veṇu, Śyāmāka, Nīvāra, Jartila Gavīdhuka, Markaṭaka. (From Veṇu onwards) should be known as wild.
तिलमाषा व्रीहियवाः प्रियङ्ग्वणवो गोधूमा वेणुश्यामाकनीवारा जर्तिलाश्च गवीधुका आरण्यजा मर्कटका विज्ञेयाः १३
14 गार्मुतसप्तमाः कुलत्थसप्तमा वा …{Loading}…
गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे १४
थिते
- (In the list of wild herbs) Gārmuta or Kulattha is the seventh. (He sows) seven cultivated (herbs) on the ploughed (part) and the seven uncultivated on the unploughed (part).
गार्मुतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे । सप्तारण्या अकृष्टे १४
इत्येकोनविंशी कण्डिका