१८

01 सं वरत्रा दधातनेति ...{Loading}...

सं वरत्रा दधातनेति मम्प्रेष्यति १

02 निष्कृताहावमवटमित्यवटादुदकमाहावेषूत्सिञ्चति ...{Loading}...

निष्कृताहावमवटमित्यवटादुदकमाहावेषूत्सिञ्चति २

03 तेषु बलीवर्दान्पाययन्ति ...{Loading}...

तेषु बलीवर्दान्पाययन्ति ३

04 उद्योजनमन्तर्याममीषाङ् खगल्यं शफम् ...{Loading}...

उद्योजनमन्तर्याममीषां खगल्यं शफम् । अष्ट्रां तालं प्रतीनाहमुभे मण्डूक्यौ युजाविति युगलाङ्गलं संप्रसारयति ४

05 सीरा युञ्जन्तीति द्वाभ्यां ...{Loading}...

सीरा युञ्जन्तीति द्वाभ्यां सीरं युनक्ति षड्गवं द्वादशगवं चतुर्विंशतिगवं वा ५

06 उष्टारयोः पिल्वयोरथो आबन्धनीययोः ...{Loading}...

उष्टारयोः पिल्वयोरथो आबन्धनीययोः । सर्वेषां विद्म वो नाम वाहाः कीलालपेशस इति युक्तानभिमन्त्र्योदस्थाद्गोजिद्धनजिदश्वजिद्धिरण्यजित्सूनृतया परीवृतः । एकचक्रेण सविता रथेनोर्जो भागं पृथिवीमेत्वापृणन्निति लाङ्गलमुच्छ्रयति ६

07 ब्रह्म जज्ञानमित्येषा अनाप्ता ...{Loading}...

ब्रह्म जज्ञानमित्येषा । अनाप्ता या वः प्रथमा यस्यां कर्माणि कृण्वते । वीरान्नो अत्र मा दभंस्तद्व एतत्पुरो दधे । पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्यै ऋणया न ईयसे । सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वां असश्चतः । अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतव इति ब्रह्मवर्माणि जुहोति ७

08 मलिम्लुचो नामासि त्रयोदशो ...{Loading}...

मलिम्लुचो नामासि त्रयोदशो मास इन्द्रस्य वर्मासीन्द्रस्य शर्मासीन्द्रस्य वरूथमसि तं त्वा प्रपद्ये ८

इत्यष्टादशी कण्डिका


  1. TS IV.2.5.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TS V.2.5.2. ↩︎ ↩︎

  3. Cf. TS V.2.5.2. ↩︎

  4. Cf. ŚB VII.2.2.26. ↩︎