१७

01 राज्ञो निवपनादि कर्म ...{Loading}...

राज्ञो निवपनादि कर्म प्रतिपद्यते १

02 प्रायणीयया प्रचर्य वेदिं ...{Loading}...

प्रायणीयया प्रचर्य वेदिं विमिमीते २

03 हविष्कृता वाचं विसृज्येति ...{Loading}...

हविष्कृता वाचं विसृज्येति वाजसनेयकम् ३

04 प्रायणीयाया ध्रौवादित्येतदादि कर्म ...{Loading}...

प्रायणीयाया ध्रौवादित्येतदादि कर्म प्रतिपद्यते ४

05 आतिथ्यया प्रचर्याग्निं विमिमीते ...{Loading}...

आतिथ्यया प्रचर्याग्निं विमिमीते ५

06 हविष्कृता वाचं विसृज्येति ...{Loading}...

हविष्कृता वाचं विसृज्येति वाजसनेयकम् ६

07 समूलं हरितन् दर्भस्तम्बमाहृत्य ...{Loading}...

समूलं हरितं दर्भस्तम्बमाहृत्य मध्ये ऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्जुहोति ७

08 यावान्यजमान ऊर्ध्वबाहुस्तावता वेणुनाग्निं ...{Loading}...

यावान्यजमान ऊर्ध्वबाहुस्तावता वेणुनाग्निं विमिमीते ८

09 त्रीन्प्राचश्चतुर उदीचः ...{Loading}...

त्रीन्प्राचश्चतुर उदीचः ९

10 पुरुषमात्राणि पक्षपुच्छानि ...{Loading}...

पुरुषमात्राणि पक्षपुच्छानि १०

11 आत्मा चतुःपुरुषः ...{Loading}...

आत्मा चतुःपुरुषः ११

12 अरत्निना दक्षिणतो दक्षिणम् ...{Loading}...

अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति १२

13 एवमुत्तरत उत्तरम् ...{Loading}...

एवमुत्तरत उत्तरम् १३

14 प्रादेशेन वितस्त्या वा ...{Loading}...

प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् १४

15 एकविधः प्रथमोऽग्निः द्विविधो ...{Loading}...

एकविधः प्रथमोऽग्निः । द्विविधो द्वितीयः । त्रिविधस्तृतीयः । त एवमेवोद्यन्त्यैकशतविधात् १५

16 तदु ह वै ...{Loading}...

तदु ह वै सप्तविधमेव चिन्वीत सप्तविधो वाव प्राकृतोऽग्निस्तत ऊर्ध्वमेकोत्तरानिति वाजसनेयकम् १६

17 स्योना पृथिवि भवानृक्षरा ...{Loading}...

स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथा । बडित्था पर्वतानामित्येताभ्यां विमितमग्निमाक्रमन्ते १७

इति सप्तदशी कण्डिका


  1. Thus x.20.13-19. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XI.4.11ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. ŚB VII.2.3.4. ↩︎

  4. TS V.6.4.1. ↩︎