१६

01 यत्ते देवी निरृतिराबबन्धेति ...{Loading}...

यत्ते देवी निरृतिराबबन्धेति शिक्यजालेनैनाः म्रच्छाद्य रुक्मसूत्रमासन्दीं च परस्तान्निधायापास्मदेतु निरृतिर्नेहास्या अपि किञ्चन । अगोतां नाष्ट्रां पाप्मानं सर्वं तदपहन्महे । अपास्मन्नैरृतान्पाशान्मृत्यूनेकशतं चये । अपास्य ये सिनाः पाशा मृत्यूनेकशतं सुवे । ये ते पास्य एकशतं मृत्यो मर्त्याय हन्तवे । तान्यज्ञस्य मायया सर्वानवयजामहे । देवीमहं निरृतिं बाधमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी विचष्ट इत्येताभिश्चतसृभिरुपहिता अभिमन्त्र्य यदस्य पारे रजस इति वैश्वानर्या परिषिच्य भूत्यै नम इत्युपस्थायाप्रतीक्षमायन्ति १

02 निरृत्या अन्तर्हित्या इति ...{Loading}...

निरृत्या अन्तर्हित्या इति विज्ञायते २

03 शन् नो देवीरभिष्टय ...{Loading}...

शं नो देवीरभिष्टय इत्यद्भिर्मार्जयन्ते ३

04 ऊर्जम् बिभ्रद्वसुमनाः सुमेधा ...{Loading}...

ऊर्जं बिभ्रद्वसुमनाः सुमेधा गृहानैमि मनसा मोदमानः सुवर्चाः । अघोरेण चक्षुषाहं शिवेन गृहाणां पश्यन्वय उत्तिराणि । गृहाणामायुः प्र वयं तिरामो गृहा अस्माकं प्र तिरन्त्वायुः । गृहानहं सुमनसः प्रपद्येऽवीरघ्नो वीरवतः सुवीरानिति गृहानभ्येति ४

05 निवेशनः सङ्गमनो वसूनामित्याहवनीयङ् ...{Loading}...

निवेशनः सङ्गमनो वसूनामित्याहवनीयं गार्हपत्यं वोपतिष्ठन्ते ५

इति षोडशी कण्डिका


  1. TS IV.2.5.h. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB VII.2.1.15. ↩︎ ↩︎ ↩︎ ↩︎

  3. KS. XXXVIII.13. ↩︎ ↩︎

  4. TS. IV.2.5.f. ↩︎ ↩︎

  5. Cf. MS III.2.4. ↩︎

  6. Cf. TS V.2.4.4. ↩︎